श्यामत्वग्रसनाशुण्डा नागाः पीनायता ननाः
भार्या चैवाङ्गना तस्य नीलवल्लक्षणौ सुतौ
नीचैर्बद्धाः कुले तस्य जायन्ते निबिडा गजाः
तस्य प्रहारी संपातिः पृथुश्चेति सुतास्त्रयः
जायन्ते मृदुसंभोगा वंशे तस्य मतङ्गजाः
सुतौ जातौ तयोश्चापि प्रमाथिपुरुषौ स्मृतौ
सुदर्शनाः सुवर्ष्माणः पद्माभाः परिमण्डलाः
जज्ञे चान्द्रमसः साम्नः कुमुदः कुमुदद्युतिः
शैलजीमूतसंकाशान्सुबुद्धान्बलिनो वरान्
एतान्देवासुरे युद्धे जयार्थं जगृहुः सुराः
एतेषां चान्वये जातान्विनीतांस्त्रिदशा ददुः
द्विरदो रदनद्वाभ्यां हस्ती हस्तात्करात्करी
कुञ्जरः कुञ्जचारित्वान्नागो नगम्यमस्य यत्
सामजः सामजातत्वादिति निर्वचनक्रमः
बलस्यानवबोधो यो या चैषां गूढमुष्कता
देवदानगन्धर्वपिशाचोरगरक्षसाम्
संभूतिश्च प्रसूतिश्च नामनिर्वचनं तथा
कौशिक्या ह्यासमुद्रात्तु गङ्गायश्च यदुत्तरम्
उत्तरं चैव विध्यस्य गङ्गाया दक्षिणं च यत्
अपरेणोत्कलं चैव कावेरीभ्यश्च पश्चिमम्
अपरेणतु लौहित्यमासिंधोः पश्चिमेन तु
भूता विजज्ञे भूतांस्तु रुद्रस्यानुचरानिह
लंबकर्णान्प्रलंबौष्ठान् लंबजिह्वांस्तनूदरान्
सकृष्णगौरान्नीलांश्च श्वेतान्वै लोहिताननान्
मुञ्जकेशान्त्दृष्टरोम्णः सर्वयज्ञोपवीतिनः
चण्डांश्च विकटांश्चैव निर्मितांश्च द्विजिह्वकान्
सरः श्रेष्ठसमुद्राद्रिनदीपुलिनसेविनः
दंष्ट्रिणो नखिनश्चैव निर्दन्तांश्च विजिह्वकान्
एकपादान्द्विपादांश्च त्रिपादान्बहुपादकान्
सर्वत्रगातप्रतिघातब्रह्मज्ञान्कामरूपिणः