च्यवते न च ज्ञानेन जायते देवयोनिषु
ऋक्षा मार्जारलोहासा वानरा मायवस्तथा
एषां प्रणेता सर्वेषां वाली राजा प्रतापवान्
प्रसह्य हन्ता रौद्राणामसुराणां बलीयसाम्
पक्ष एष समुद्दिष्टो महेन्द्रस्य सहायवान्
इत्येते हरयः प्रोक्ता इरावत्या निबोधत
हस्ताभ्यां परिगृह्याथ रथन्तरमगायत
संप्रायच्छदिरावत्यै पुत्रार्थं स तु भौवनः
देवराजोपवाह्यत्वात्प्रथमः स मतङ्गराट्
अञ्जनस्यैकमूलस्य सुवर्णाभस्य हस्तिनः
तस्य पुत्रोंऽजनश्चैव सुप्रतीकश्च वामनः
दिग्गजान्बलिनश्चैवाभ्रमुर्ज नयताप्सुगान्
संकीर्णो ह्यञ्जनो यो ऽसावौपवाह्यो यमस्य सः
पद्मो मन्दस्तु यो गौरो द्विपो ह्यैलविलस्य च
पद्मोत्तमः पद्मागुल्मो गजो वातगजो गजः
उदग्रभावेनो पेता जायन्ते तस्य चान्वये
सामजांस्तु प्रवक्ष्यामि नागानन्यानपि क्रमात्
जातौ नाम्ना श्रुतौ ताभ्यां सुप्रतीकप्रमर्दनौ
बलिनः शङ्किताश्चैव स्मृतास्तद्वंशिनो गजाः
ताम्र पर्णश्च तत्पुत्राः संघचारिविषाणिनः
श्यामत्वग्रसनाशुण्डा नागाः पीनायता ननाः
भार्या चैवाङ्गना तस्य नीलवल्लक्षणौ सुतौ
नीचैर्बद्धाः कुले तस्य जायन्ते निबिडा गजाः
तस्य प्रहारी संपातिः पृथुश्चेति सुतास्त्रयः
जायन्ते मृदुसंभोगा वंशे तस्य मतङ्गजाः
सुतौ जातौ तयोश्चापि प्रमाथिपुरुषौ स्मृतौ
सुदर्शनाः सुवर्ष्माणः पद्माभाः परिमण्डलाः
जज्ञे चान्द्रमसः साम्नः कुमुदः कुमुदद्युतिः
शैलजीमूतसंकाशान्सुबुद्धान्बलिनो वरान्
एतान्देवासुरे युद्धे जयार्थं जगृहुः सुराः