गृहेषु गृहगर्भेषु गृहवासावलंबिनः
तथा वनचराश्चैव स्वभावात्समवस्थिताः
नीलजीमूतवर्णाश्च कपिला केकरारुणाः
नखदंष्ट्रायुधा घोरा मयूरसमभाषणाः
श्यामश्च शबलश्चैव यमस्यानुचरौ स्मृतौ
श्रुतिमाप्तः पुनर्वंशः सारमेयेषु सर्वदा
विषादयन्ति च नरान्सर्वजातिसमन्वितान्
य इदं शृणुयाज्जन्म दंष्ट्रिणां श्रावयेत्तु यः
तात्कालमरणं चैव भवतीति विनिर्णयः
वानप्रस्था श्रितं धर्ममाप्नोति मुनिसेवितम्
च्यवते न च ज्ञानेन जायते देवयोनिषु
ऋक्षा मार्जारलोहासा वानरा मायवस्तथा
एषां प्रणेता सर्वेषां वाली राजा प्रतापवान्
प्रसह्य हन्ता रौद्राणामसुराणां बलीयसाम्
पक्ष एष समुद्दिष्टो महेन्द्रस्य सहायवान्
इत्येते हरयः प्रोक्ता इरावत्या निबोधत
हस्ताभ्यां परिगृह्याथ रथन्तरमगायत
संप्रायच्छदिरावत्यै पुत्रार्थं स तु भौवनः
देवराजोपवाह्यत्वात्प्रथमः स मतङ्गराट्
अञ्जनस्यैकमूलस्य सुवर्णाभस्य हस्तिनः
तस्य पुत्रोंऽजनश्चैव सुप्रतीकश्च वामनः
दिग्गजान्बलिनश्चैवाभ्रमुर्ज नयताप्सुगान्
संकीर्णो ह्यञ्जनो यो ऽसावौपवाह्यो यमस्य सः
पद्मो मन्दस्तु यो गौरो द्विपो ह्यैलविलस्य च
पद्मोत्तमः पद्मागुल्मो गजो वातगजो गजः
उदग्रभावेनो पेता जायन्ते तस्य चान्वये
सामजांस्तु प्रवक्ष्यामि नागानन्यानपि क्रमात्
जातौ नाम्ना श्रुतौ ताभ्यां सुप्रतीकप्रमर्दनौ
बलिनः शङ्किताश्चैव स्मृतास्तद्वंशिनो गजाः
ताम्र पर्णश्च तत्पुत्राः संघचारिविषाणिनः