तत्रावर्त्तत गर्भो वै अण्डस्याभ्यन्तरे बली
सर्वतो निर्मितं ज्ञात्वा गर्भं ते त्दृततेजसः
बलं तेजो ऽस्य भविता निर्मितस्याधिकं विभो
सर्वभूतानि यानीह स्यावराणि चरणि च
यदेडे स्थापितं तेजो बलं च द्विजसत्तम
श्रुतितेजः प्रभावश्च धक्षते सर्वतोंऽजसा
बलं चाण्डे चकाराथ ततस्त्वण्डान्तरे शिशुः
तत्तूदराद्विनिष्क्रान्तं मृतपिण्डोपमं स तु
शकले द्वे समास्थाय स एकस्मिन्नपश्यत
तत्समुद्यम्य चोत्थायादिन्युत्संगे निवेद्य च
तेन मार्त्तण्ड इति वै कथ्यते सविता बुधैः
ये ते अण्डकपाले द्वे तद्बलं परमं मतम्
उदरे प्रवेशयामास तस्याः स जननेच्छया
देवोपवाह्या राजानो हस्तिनो बलवत्तराः
उत्तरत्र च वो भूयस्तेषां वक्ष्यामि विस्तरम्
भगवान्सविता साक्षात्प्रभासयति रश्मिभिः
बाह्यं तमोवृतं सर्वं तत्प्रमाणमशेषतः
श्रुतं भगवतो व्यासात्पाराशर्यान्महात्मनः
विमृश्य बहुधा तत्तु पुनरन्यैः पृथक्पृथक्
अभयो विचरत्येव जात्यन्तरशतं गतः
कथ्यते वा कथा यस्य न तं विद्धि समानकम्
ऋक्षस्य भगिनी रक्षा वानरस्य बलीयसः
ऋक्षराजं महाप्राज्ञं जांबवन्तं यशस्विनम्
वासुदेवस्य सा दत्ता पित्रा राजीवलोचना
जयन्तो ऽथ च सर्वज्ञो मृगराट् संकृतिर्जयः
भोजो राक्षसजिच्चैव पिशाचवनगोचरौ
तेषां पुत्राश्च पौत्राश्च शतशो ऽथ सहस्रशः
मार्जारस्य तु मार्जारा वाद्याः पुत्रा महाबलाः
आचार्याः श्वापदादीनां शरभाणां महौजसः
लाघवे प्लवने युक्ताः सर्वसत्त्वावसादकाः