विद्राव्य सर्वोंल्लोकेषु वीरान्परपुरञ्ज्यः
विक्षोभ्य सागरान्सप्त सप्तकृत्वो महारथः
दुर्बलेन मया क्रान्तो वानरेण विशेषतः
प्रब्रूहि हेतुना केन ब्रह्मन्राक्षसपुङ्गव
वयनं वालिनः श्रुत्वा दशग्रीवः प्रतापवान्
असंशयं जिताः सर्वे मया देवासुरा रणे
तदिच्छामि त्वया सार्द्धं सौहृदं भयवर्जितम्
एवमुक्तो ऽब्रवीद्वाली भवत्येतद्वचस्तव
जगाम लङ्कां सगणः प्रहृष्टेनान्तरात्मना
आजहार बहून्यज्ञानन्नपानसमावृतान्
अग्निष्टोमाश्वमेधांश्च राजसूयान्नृमेधकान्
तर्पयित्वाथ देवांश्च देवेन्द्रंबहुभिस्तथा
सुग्रीवेण सह भ्रात्रा सुखी भूत्वा यवीयसा
ब्रह्मण्यो ब्रह्मपरमो धर्मसेतुः क्रियापरः
यस्य देवमुनिर्गाथां जगौ यज्ञेषु नारदः
तुल्यो ऽस्ति त्रिषु लोकेषु वालिनोहेममालिनः
वाली यज्ञसहस्राणां यज्वा परमदुर्जयः
निरुक्तमस्य तु विभो याथातथ्येन सुव्रत
सृत्यमानेषु भूतेषु प्रजापतिरथ स्वयम्
प्रवेशायामास तदा योगेन महता वृताः
तत्रावर्त्तत गर्भो वै अण्डस्याभ्यन्तरे बली
सर्वतो निर्मितं ज्ञात्वा गर्भं ते त्दृततेजसः
बलं तेजो ऽस्य भविता निर्मितस्याधिकं विभो
सर्वभूतानि यानीह स्यावराणि चरणि च
यदेडे स्थापितं तेजो बलं च द्विजसत्तम
श्रुतितेजः प्रभावश्च धक्षते सर्वतोंऽजसा
बलं चाण्डे चकाराथ ततस्त्वण्डान्तरे शिशुः
तत्तूदराद्विनिष्क्रान्तं मृतपिण्डोपमं स तु
शकले द्वे समास्थाय स एकस्मिन्नपश्यत
तत्समुद्यम्य चोत्थायादिन्युत्संगे निवेद्य च