तस्मिन्काले तदा देवा आसन्वैमानिकास्तु ये
अष्टाविंशतिरेवैताः कोट्यस्तु सुकृतात्म नाम्
त्रीणि कोटिशतान्यासन् कोट्यो द्विनवतिस्तथा
एकैकस्मिंस्तु कल्पे वै देवा वैमानिकाः स्मृताः
देवाश्च पितरश्चैव ऋषयो ऽमृतपास्तथा
वर्णाश्रमातिरिक्ताश्च तस्मिन्काले तु खे सुराः
तुल्यनिष्ठाभवन्सर्वे प्राप्ते ह्याभूतसंप्लवे
त्रैलोक्यवासिनो देवा इह तानाभिमानिनः
कल्पावसानिका देवास्त स्मिनप्राप्ते ह्युपप्लवे
महर्लोकाय संविग्नास्ततस्ते दधिरे मनः
विशुद्धिबहुलाः सर्वे मानसीं सिद्धिमास्थिताः
ब्राह्मणैः क्षत्रियैर्वैश्यैस्तद्भवैश्चापरैर्जनैः
स्ततस्ते जनलोकाय सोद्वेगा दधिरे मनः
एवं देवयुगानां तु सहस्राणि परस्परम्
तैः कल्पवासिभिः सार्द्धं जन आसादितस्तु वै
गत्वा ते ब्रह्मलोकं वै अपरावर्त्तिनीं गतिम्
भवन्ति ब्रह्मणा तुल्या रूपेण विषयेण च
आनन्दं ब्रह्मणः प्राप्य मुच्यन्ते ब्रह्मणा सह
मानार्चनाभिः संबद्धास्तदा तत्कालभाविताः
तथातु भाविते सेवां तथानन्दः प्रवर्तते
तैः सार्द्ध वर्द्धते तेषां कार्याणि करणानि च
विनिवृत्ताधिकारणां स्वेन धर्मेण तिष्ठताम्
प्राकृते करणोपेताः स्वात्मन्येव व्यवस्थिताः
पुरुषान्यबहुत्वेन प्रतीता तत्प्रवर्तते
संयोगे प्रकृतिर्ज्ञैया मुक्तानां तत्त्वदर्शिनाम्
अभावः पुनरुत्पन्नः शान्तानामर्चिषामिव
एतैः सार्धं महर्लोकस्तदानासादितस्तु वै
गन्धर्वाद्याः पिशाचाश्च मानुषा ब्राह्मणादयः
तिष्ठत्सु तेषु तत्कालं पृथिवीतलवासिषु
तत्सप्तरश्मयो भूत्वा एकैको जायते रविः