सर्वलोकानपि रणे यो योद्धुं च समुत्सहेत्
अग्निपुत्रश्च बलवान्नलः परमदुर्ज्जयः
तथात्वन्ये महाभागा बलवन्तश्च वानराः
तारश्च कुसुमश्चैव पनसो गन्धमादनः
सुषेणः सुधनुश्चैव सुबन्धुः शतदुन्दुभिः
कुञ्जरः शरभो दंष्ट्री कालमूर्तिर्महासुखः
चिरवः करवस्ताम्रश्चित्रयोधी रथीतरः
यक्षास्यो गहनश्चैव धूम्रः पञ्चरथस्तथा
श्रुतायुर्विजयाकाङ्क्षी गुरुसेवी यथार् थकः
पुण्ड्रश्चावरगात्रश्च चारुरूपश्च शतुजित्
मन्त्री भीमरथः संगो विभ्रान्तश्चारुहासवान्
जाजलिः पञ्चमुकुटो बलबन्धुः समाहितः
नवाक्षे हरिनेत्रश्च जीमूतो ऽथ बलाहकः
वीरबाहुः कृती कुण्डो कृतकृत्यः शुभेक्षणः
विकटः कवकश्चैव जवसेनो वृषाकृतिः
सहस्वारः शुभक्षेत्रः पुष्पध्वंसो विलोहितः
गोधामा च धनेशश्च गोलाङ्गूलश्च नेत्रवान्
बहुत्वान्नामधेयानां न शक्यमभिवर्णितुम्
सर्ववानरसैन्यस्य सप्तद्वीपस्थितस्य तु
रणे निगूङ्य वामेन भुजेन स महाबलः
मौहूर्तिकीं गतिं गत्वा चतुः परशर्वानुपस्पृशन्
मनोवायुगतिर्भूत्वा वाली व्यपगतक्रमः
वाली बाहुविनिर्मुक्तं विह्वलं नष्टचेतसम्
सिच्यांभसा सुशीतेन ह्यापादतलमस्तकात्
उवाच रणचण्डं तं राक्षसेंद्रं कपीश्वरः
असंख्येयं बलं जित्वा यमं ससचिवं रणे
मरुद्गणं तथा रुद्रानादित्यानश्विनौ वसून्
सिद्धांस्तथैव गन्धर्वान्यक्षरक्षोभुजङ्गमान्
तथा भूतपिशाचांश्च विवृद्धबलदर्पितान्
कथमीदृग्गुणो भूत्वा मनोवायुसमो जवे