शरभस्य सुतो धीमाञ्शुको नाम महाबलः
संमतः सर्वशूराणां चक्रवर्ति दुरासदः
इन्ता सदैव शत्रूणां सर्वास्त्रविधिपारगः
प्रजापतिरुपादाय कन्यां हेमविभूषिताम्
पाणिं जग्राह तस्यास्तु ऋक्षो वानरयूथपः
चकमे तां महेन्द्रस्तु दृष्ट्वा वै प्रियदर्शनाम्
विरजायां महेन्द्रेण महेन्द्रसमविक्रमः
रहस्युत्पादितः पुत्रः सुग्रीवो हरियूथपः
हर्ष चक्रे सुविपुलं सर्ववानरयूथपः
अभिषिक्तस्ततो वाली सुग्रीवानुगतो बली
सुषेणास्य सुता चापि भार्या तस्य महात्मनः
सुषुवे सापि तनयमङ्गदं कनकाङ्गदम्
मैन्दस्य च्येष्ठकन्यायां ध्रुवो नाम महायशाः
तस्यापि च सुता जातास्त्रयः परमकीर्त्तयः
वालिनः पार्श्वतो ऽतिष्ठत्सुग्रीवः सह वानरैः
केसरी कुञ्जरस्याथ सुतां भार्यामविन्दत
पर्युपास्ते च तां वायुर्यौंवनादेव गर्विताम्
ये ह्यन्ये केसरिसुता विख्याता दिवि चेह वै
श्रुतिमान्केतुमांश्चैव मतिमान्धृतिमानपि
स्वानरूपैः सुताः पित्रा पुत्रपौत्रसमन्विताः
सर्वलोकानपि रणे यो योद्धुं च समुत्सहेत्
अग्निपुत्रश्च बलवान्नलः परमदुर्ज्जयः
तथात्वन्ये महाभागा बलवन्तश्च वानराः
तारश्च कुसुमश्चैव पनसो गन्धमादनः
सुषेणः सुधनुश्चैव सुबन्धुः शतदुन्दुभिः
कुञ्जरः शरभो दंष्ट्री कालमूर्तिर्महासुखः
चिरवः करवस्ताम्रश्चित्रयोधी रथीतरः
यक्षास्यो गहनश्चैव धूम्रः पञ्चरथस्तथा
श्रुतायुर्विजयाकाङ्क्षी गुरुसेवी यथार् थकः
पुण्ड्रश्चावरगात्रश्च चारुरूपश्च शतुजित्