वानरा वानरीभिस्ते दिव्याभरणभूषिताः
क्रियामयाः समुदिता दिवि देवगणा इव
धार्मिकाश्च वरोत्सिक्ता युद्धशैण्डा महाबलाः
अम्लानिनः सत्यसंधा नानार्थे बहुजल्पिनः
वनालङ्कारभूतो हि सृष्टा वै ब्रह्मणा स्वयम्
कपीनामवतारो ऽयं सर्वपापविनाशनः
तदेव कीर्तयिष्यामि तच्छृणुध्वमतन्द्रिताः
व्याघ्रस्य भ्रातरः पञ्च स्वसारश्च तथास्य वै
प्रतिपादिता स्वयं भ्रात्रा भातृदारास्तथैव च
शरभस्यापि विद्धांसो भ्रातरो वीर्यसंमताः
शरभस्य सुतो धीमाञ्शुको नाम महाबलः
संमतः सर्वशूराणां चक्रवर्ति दुरासदः
इन्ता सदैव शत्रूणां सर्वास्त्रविधिपारगः
प्रजापतिरुपादाय कन्यां हेमविभूषिताम्
पाणिं जग्राह तस्यास्तु ऋक्षो वानरयूथपः
चकमे तां महेन्द्रस्तु दृष्ट्वा वै प्रियदर्शनाम्
विरजायां महेन्द्रेण महेन्द्रसमविक्रमः
रहस्युत्पादितः पुत्रः सुग्रीवो हरियूथपः
हर्ष चक्रे सुविपुलं सर्ववानरयूथपः
अभिषिक्तस्ततो वाली सुग्रीवानुगतो बली
सुषेणास्य सुता चापि भार्या तस्य महात्मनः
सुषुवे सापि तनयमङ्गदं कनकाङ्गदम्
मैन्दस्य च्येष्ठकन्यायां ध्रुवो नाम महायशाः
तस्यापि च सुता जातास्त्रयः परमकीर्त्तयः
वालिनः पार्श्वतो ऽतिष्ठत्सुग्रीवः सह वानरैः
केसरी कुञ्जरस्याथ सुतां भार्यामविन्दत
पर्युपास्ते च तां वायुर्यौंवनादेव गर्विताम्
ये ह्यन्ये केसरिसुता विख्याता दिवि चेह वै
श्रुतिमान्केतुमांश्चैव मतिमान्धृतिमानपि
स्वानरूपैः सुताः पित्रा पुत्रपौत्रसमन्विताः