एवन्धनेन रूपेण आयुषा च बलेन च
देवासुरेभ्यो हीयन्ते त्रींस्त्रीन्पादान्परस्परम्
अतः शृणुत भद्रं वः प्रजाः क्रोधवशान्वयाः
ता भार्या पुलहस्यासन्नामतो मे निबोधत
भूता च कपिशा दंष्ट्रा ऋषा तिर्या तथैव च
मृग्यास्तु हरिगाः पुत्रा मृगश्चान्ये शशास्तथा
ऋक्षाश्च मृगमन्दाया गवयाश्चापरे तथा
हर्य्या स्तु हरयः पुत्रा गोलाङ्गूलास्तरक्षवः
सिंहाव्याघ्राश्च नीलाश्चद्वीपिनः क्रोधिताधराः
मण्डूका नकुलाश्चैव वल्कका वनगोचराः
रणचन्द्रं शतमुखं दरीमुखमथापि च
प्रथितं मथितं चैव हरिणं लाङ्गलिं तथा
ऊर्द्ध्वदृष्टिः कृताहारः सुव्रतो विनतो बुधः
क्षेममूर्तिश्च बलवान् राजानः सर्व एव ते
अशक्याः समरेजेतुं देवदानवमानवैः
नाग्निशस्त्रविषैरन्यैर्मृत्युरेषां विधीयते
पाताले च जले वायौ ह्यविनाशिन एव ते
महापद्मसहस्राणि महापद्मशतानि च
नियुतानां सहस्राणि निखर्वाणां तथै व च
अर्बुदानां च लक्षं तु कोटीशतमथापरम्
संख्यातानि कुलीनानां वानराणां तरस्विनाम्
दिव्याभरणवेषाश्च ब्रह्मण्याश्चाहितग्नयः
मुकुटैः कुण्डलैर्हारैः केयूरैः समलङ्कृताः
अस्त्राणां मोचने चापि तथा संहारकर्मणि
समर्था बलिनः शूराः सर्वशस्त्रप्रहारिणः
कुलानां च सहस्राणि दश तेषां महात्मनाम्
नीले श्वेतनगे चैव निषधे गन्धमादने
निलयास्तेषु ते प्रोक्ता विश्वकर्मकृता स्वयम्
सर्वर्तुरमणीयास्ते ह्युद्यानानि च सर्वशः
आलेपनैश्च विविधैर्दिव्यभक्तिकृतैस्तथा