आलंबा उत्कचोत्कृष्टा निरृता कपिला शिवा
ताभ्यो लोकनिकायस्य हन्तारो युद्धदुर्मदाः
आलंबेयो गणः क्रूर औत्कचेयो गणस्तथा
तथैव नैरृतो नाम त्र्यंबकानुचरेण ह
विक्रान्ताः शौर्यसंपन्ना नैरृता देवराक्षसाः
तेषां गणशतानीका उद्धतानां महात्मनाम्
दैत्यराजेन कुम्भेन महाकाया महात्मना
कापिलेया महावीर्या उदीर्णा दैत्यराक्षसाः
उत्पादिता बलावता उदीर्णा यक्षराक्षसाः
आलंबेयेन जनिता नैकाः सुरसिकेन हि
चरन्ति पृथिवीं कृत्स्नां तत्र ते देवलौकिकाः
तस्यास्त्वपि च नीलाया विकचा नाम राक्षसी
विरूपकेन तस्यां वै नैरृतेन इह प्रजाः
दंष्ट्राकराला विकृता महाकर्णा महोदराः
रेरवाकाः पिशाचाश्च वाहकास्त्रासकाः परे
चरन्त्यदृष्टपूर्वास्तु नानाकारा ह्यनेकशः
लक्षमात्रेण चाकाशं स्वल्पात्स्वल्पं चरन्ति वै
भूमिराक्षसकैः सर्वैरनेकैः क्षुद्रराक्षसैः
समासाभिहिताश्चैवह्यष्टौ राक्षसमातरः
भद्रका निकराः केचिदज्ञनिष्पत्तिहेतुकाः
पूतरा मातृसामान्यास्तथा भूतभयङ्कराः
स्कन्दग्रहादयो हास्या आपकास्त्रासकादयः
स्कन्दग्रहविशेषाणां मायिकानां तथैव च
एवं गणसहस्राणि चरन्ति पृथिवीमिमाम्
यक्षाणां राक्षसानां च पौलस्त्यागस्तयश्च ये
यक्षादृष्ट्या पिबन्तीह नॄणां मांसमसृग्वसे
सर्वलक्षणसंपन्नाः समामैश्चापि दैवतैः
अनाभिभाव्या विक्रान्ताः सर्वलोकनमस्कृताः
देवानां लक्षणं ह्येतदसुराणां तथैव च
गन्धर्वेभ्यस्त्रिभिः पादैर्हीना गुह्यकराक्षसाः