तस्मिन्निवासो यक्षाणां न्यग्रोधे रोहिणे स्मृतः
अनुह्रादस्य दैत्यस्य भद्रां मणिवरां सुताम्
जज्ञे सा मणिभद्रं च शक्रतुल्यपराक्रममम्
नाम्ना पुण्यजनी चैव तथा देवजनी च या
सिद्धार्थं सूर्यतेजश्च सुमनं नन्दनं तथा
सर्वानुभूतं शङ्खं च पिङ्गाक्षं भीरुमेव च
मेघवर्णं सुभद्रं च प्रद्योतं च महाद्युतिम्
चत्वारो विंशतिश्चैव पुत्राः पुण्यजनीभवाः
तेषां पुत्राश्च पौत्राश्च यक्षाः पुण्यजनाः शुभाः
पूर्णभद्रं हैमवन्तं मणिमन्त्रविवर्द्धनौ
स्वेतं च विमलं चैव पुष्पदन्तं चयावहम्
कुमुदाक्षं सुकमलं वर्द्धमानं तथा हितम्
पूर्ममासं हिरण्याक्षं सारणं चैव मानसम्
सुरुपाश्च सुवेषाश्च स्रग्विणः प्रियदर्शनाः
खशायास्त्वपरे पुत्रा राक्षसाः कामरूपिणः
लालाविः क्रथनो भीमः सुमाली मधुरेव च
चन्द्रार्कभीकरो बुध्नः कपिलोमा प्रहासकः
त्रिशिराः शतदंष्ट्रश्च तुण्डकोशश्च राक्षसः
इत्येते राक्षसवारा विक्रान्ता गणरूपिमः
सप्त चान्या दुहितरस्ताः शृणुध्वं यथाक्रमम्
आलंबा उत्कचोत्कृष्टा निरृता कपिला शिवा
ताभ्यो लोकनिकायस्य हन्तारो युद्धदुर्मदाः
आलंबेयो गणः क्रूर औत्कचेयो गणस्तथा
तथैव नैरृतो नाम त्र्यंबकानुचरेण ह
विक्रान्ताः शौर्यसंपन्ना नैरृता देवराक्षसाः
तेषां गणशतानीका उद्धतानां महात्मनाम्
दैत्यराजेन कुम्भेन महाकाया महात्मना
कापिलेया महावीर्या उदीर्णा दैत्यराक्षसाः
उत्पादिता बलावता उदीर्णा यक्षराक्षसाः
आलंबेयेन जनिता नैकाः सुरसिकेन हि