तयोः प्रजानिसर्गं च कथयिष्ये निबोधत
विद्युत्स्फूर्जश्च वातश्च आयो प्याघ्रस्तथैव च
माल्यवांश्च सुमाली च प्रहेतितनयौ शृणु
मधुः परो महोग्रस्तु लवणस्तस्य चात्मजः
उग्रस्य पुत्रौ विक्रान्तो वज्रहा नाम विश्रुतः
कूरश्च विकृतश्चैव रुधिरादस्तथैव च
वधपुत्रौ दुराचारौ विघ्नश्च शामनश्च ह
स्फूर्जक्षेत्रे निकुंभस्तु जातो वै ब्रह्मराक्षसः
व्याघ्र पुत्रो निरानन्दः क्रतूनां विघ्नकारकः
यातुधानाः परिक्रान्ता ब्रह्म धानान्निबोधत
श्वातोंऽबुकः केलिसर्पौं ब्रह्मधानात्मजा नव
रक्तकर्णी महाजिह्वा क्षमा चेष्टापहारिणी
इत्येते राक्षसाः क्रान्ता यक्षस्यविनिबोधत
तल्लिप्सुश्चिन्तयानः स देवोद्यानानि मार्गते
विशोकं सुमनं चैव नन्दनं च वनोत्तमम्
दृष्ट्वा तां नन्दने सो ऽथ अप्सरोभिः सहासिनीम्
दूषितः स्वेन रूपेण कर्मणा चैव दूषितः
तत्कथं नाम चार्वगीं प्राप्नुयामहमङ्गनाम्
कृत्वा रूपं वसुरुचेर्गन्धर्वस्य च गुह्यकः
बुद्ध्वा वसुरुचिं तं सा भावेनैवाभ्यावर्त्तत
जगाम मैथुनं यक्षः पुत्रार्थं स तया सह
ततः संसिद्धकारणः सद्यो जातः सुतस्तु वै
राजाहमिति नाभिर्हि पितरं सो ऽभ्यवादयत्
मात्रानुरूपो रूपेम पितुर्वीर्येणजायते
स्वरूपं प्रतिपद्यन्ते गूहन्तो यक्षराक्षसाः
ततो ऽब्रवीत्सो ऽप्सरसं स्मयमानस्तु गुह्यकः
इत्युक्त्वा सहसा तत्र दृष्ट्वा स्वं रूपमास्थितम्
गच्छन्तीमन्वगच्छत्तां पुत्रस्तप्तां त्वयन्शिरा
तां च दृष्ट्वा समुत्पत्तिं यक्षस्याप्सरसां गणाः
जगाम सह पुत्रेण ततो यक्षः स्वमालयम्