विपर्ययेषु वर्त्तेते ऽकृतज्ञौ प्राणिहिंसकौ
मायाविदावदृश्यौ तावन्तर्धानगतावुभौ
रूपा नुरूपैराचारैः प्रचरन्तौ प्रबाधकौ
पिशाचांश्चमनुष्यांश्चपन्नगान्पक्षिणः पशून्
इन्द्रस्यानुचरौ चैव क्षुब्धौ दृष्ट्वा ह्यतिष्ठताम्
आहारं स परीप्सन्वै शब्देनानुससार ह
कपिपुत्रौ महावीर्यौं कूष्माडौ पूर्वजावुभौ
कन्याभ्यां सहितौ तौ तु ताभ्यां भर्तुश्चिकीर्षया
आहारार्थे समीहन्तौ सकन्यौ तु बुभुक्षितौ
सहसा सन्निपातेन दृष्ट्वा चैव परस्परम्
पितरावूचतुः कन्ये युवा मानयत द्रुतम्
ततस्तमभिसृत्यैनं कन्ये जगृहतुस्तदा
ताभ्यां कन्यागृहीतं तं पिशाचौ वीक्ष्य रक्षसम्
तस्य कर्माभिजाती च श्रुत्वा तौ रक्षसस्तदा
तौ तुष्टौ कर्मणा तस्य कन्ये ते ददतुस्तु वै
अजः शण्डः सुताभ्यां तु तदा श्रावयतां धनम्
ब्रह्म तस्यापराहार इति शण्डो ऽभ्यभाषत
जन्तुभाव धनादाना इत्यजौऽश्रावयद्धनम्
यातुधानप्रसूता सा कन्या चैव महारवा
ब्रह्मधानप्रसूता सा कन्या चैव महारवा
तयोः प्रजानिसर्गं च कथयिष्ये निबोधत
विद्युत्स्फूर्जश्च वातश्च आयो प्याघ्रस्तथैव च
माल्यवांश्च सुमाली च प्रहेतितनयौ शृणु
मधुः परो महोग्रस्तु लवणस्तस्य चात्मजः
उग्रस्य पुत्रौ विक्रान्तो वज्रहा नाम विश्रुतः
कूरश्च विकृतश्चैव रुधिरादस्तथैव च
वधपुत्रौ दुराचारौ विघ्नश्च शामनश्च ह
स्फूर्जक्षेत्रे निकुंभस्तु जातो वै ब्रह्मराक्षसः
व्याघ्र पुत्रो निरानन्दः क्रतूनां विघ्नकारकः
यातुधानाः परिक्रान्ता ब्रह्म धानान्निबोधत