श्रेष्ठं पश्चिमसंध्यायां पूर्वस्यां च कनीयसम्
चतुर्भुजं चतुष्पादं किञ्चित्स्पन्दं द्विधागतिम्
स्वच्छशीर्षं महाकर्णं मुञ्जकेशं महाबलम्
रक्तपिङ्गाक्षपादं च स्थूलभ्रूदीर्घनासिकम्
एवंविधं खशापुत्रं जज्ञे ऽसावतिभीषणम्
त्रिशीर्षं च त्रिपादं च त्रिहस्तं कृष्णलोचनम्
ह्रस्वकायं प्रबाहुं च महाकाय महारवम्
स्थूलौष्ठमष्टदंष्ट्र च जिह्मास्यं शङ्कुकर्णकम्
महास्कन्धं महोरस्कं पृथुघोणं कृशोदरम्
एवंविधं कुमारं सा कनिष्ठं समसूयत
उपयौगसमर्थाभ्यां शरीराभ्यां व्यवस्थितौ
तयोः पूर्वस्तु यः क्रूरो मातरं सो ऽभ्य कर्षत
न्यषेधयत्पुनर्ह्येनं स्वयं स तु कनिष्ठकः
बाहुभ्यां परिगृह्यैनं मातरं सो ऽभ्यभाषयत्
तौ दृष्ट्वा विकृता कारौ खशां तामभ्यभाषत
मातुरेव पुनश्चाङ्गे प्रलीयेतां स्वमायया
सर्वमाचक्ष्व तत्त्वेन तवैवायं व्यतिक्रमः
यथाशीला भवेन्माता तथाशीलो भवेत्सुतः
मातॄणां शीलदोषेण तथा रूपगुणैः पुनः
इत्येवमुक्त्वा भगवान्खशामप्रतिमस्तदा
पुत्राभ्यां यत्कृतं तस्यास्तदाचष्ट खशा तदा
तेन धात्वर्थयोगेन तत्तदर्थे चकार ह
भक्षावेत्युक्तवानेष तस्माद्यक्षो ऽभवत्त्वयम्
उक्तवांश्चैष यस्मात्तु रक्षेमां मातरं स्वकाम्
स तदा तद्विधां दृष्ट्वा विक्रियां च तयोः पिता
तावृभौ क्षुधितौ दृष्ट्वा विस्मितः परिमृष्टधीः
पिता तौ क्षुधितौ दृष्ट्वा वर मेतं तयोर्ददौ
सृङ्मांसवसाभूता भविष्यन्तीह कामतः
नक्तं चैव बलीयांसौ दिवा वै निर्बलौ युवाम्
इत्युक्त्वा काश्यपः पुत्रौ तत्रैवान्तरधीयत