तथैवास्याः सुबाहूश्च विख्यातौ च हहाहुहू
गन्धर्वाप्सरसो ह्येते मौनेयाः परिकीर्त्तिताः
सुमुखी हंसपादी च लौकिक्यो ऽप्सरसः स्मृताः
वरूथो ऽथ वरेण्यश्य ततो वसुरुचिः स्मृतः
सुषुवे सा महाभागा रिष्टा देवर्षिपूजिता
मनुवन्ती सुकेशी च तुंबरोस्तु सुते शुभे
मेनका सहजन्या च पर्णिनी पुञ्जिकस्थला
प्रम्लोचेत्यभिविख्यातानुम्लोचैव तु ता दश
कुलोचितानवद्याङ्गी उर्वश्चेकादशी स्मृता
सर्वाश्च ब्रह्मवादिन्यो महाभागाश्च ताः स्मृताः
आहृत्यः शोभवत्यश्च वेगवत्यस्तथैव च
वर्हयश्चामृताश्चैव मुदाश्च मृगवो रुचः
ब्रह्मणो मानसाहृत्यः शोभवत्यो मरुत्सुताः
युवत्यश्च तथा सूर्यरश्मिजाताः सुशोभनाः
यज्ञोत्पन्ना स्रुचो नाम कुशवत्यां च बर्हयः
वायूत्पनाना मुदा नाम भूमिजा मृगवस्तथा
शोभयन्त्यश्च कामस्य गणाः प्रोक्ताश्चतुर्दश
देवतानामृषीणां च पत्न्यश्च मातरश्च ह
संप्रयोगस्तु कामेन माद्यं दिवि हरं विना
पर्वतस्तत्र संभूतो नारदश्चैव तावुभौ
देवर्षिभ्यस्तयोर्जन्म यस्मान्नारदपर्वतौ
विनतायाश्च पुत्रौ द्वौ अरुणौ गरुडश्च ह
व्यवहार्याणि सर्वाणि ऋजुसन्निहितानि च
अनेकशिरसां तेषां खेचराणां महात्मनाम्
तेषां प्रधाना नागानां शेषवासुकितक्षकाः
ऐरावतो महापद्मः कंबलाश्वतरावुभौ
महाकर्णमहानीलौ धृतराष्ट्रबलाहकौ
सूनामुखो दधिमुखः कालियश्चालिपिण्डकः
प्रह्रादस्तु ब्रह्मणाश्च गन्धर्वो ऽथ मणिस्थकः
काद्रवेयाः समाख्याताः खशायास्तु निबोधत