पौलोमाः कालकेयाश्च दानवाः सुमरा बलाः
मयस्य जाता रंभायां पुत्राः षट् च महाबलाः
कालिकश्चाजकर्णश्चकन्या मन्दोदरी तथा
अनायुषायाः पुत्रास्ते स्मृताः पञ्च महाबलाः
अररोस्तनयः क्रूरो धुन्धुर्नाम महासुरः
बलपुत्रौ महावीर्यौं तेजसाप्रतिमावुभौ
विजरस्यापि पुत्रौ द्वौ कालकश्च खरश्च तौ
श्राद्धादो यज्ञहा चैव ब्रह्महा पशुहा तथा
जज्ञिरे ऽसुमहाघोरा वृत्रस्येन्द्रेण युध्यता
शतं तानि सहस्राणि महेन्द्रानुचराः स्मृताः
प्रजास्वन्तर्गताः सर्वे निवसंति क्रुधावृताः
सिद्धः पूर्णश्च वह्वीच पूर्णाशश्चैव वीर्यवान्
इत्येते देवगन्धर्वाः क्रोधायाः परिरीर्त्तिताः
भीमसेनेग्रसेनौ च सुपर्णो वरुणस्तथा
पत्रवानर्कपर्णश्च प्रयुतश्च तथैव हि
त्रयोदशः शालिशिराः पर्जन्यश्च चतुर्दशः
इत्येते देवगन्धर्वा मौनेयाः परिकीर्त्तिताः
अरुणा चानपाया च विमनुष्या वरांबरा
मरीचिः शुचिका चैव विद्युत्पर्णा तिलोत्तमा
असिता च सुबाहूश्च सुप्रिया सुभुजा तथा
तथैवास्याः सुबाहूश्च विख्यातौ च हहाहुहू
गन्धर्वाप्सरसो ह्येते मौनेयाः परिकीर्त्तिताः
सुमुखी हंसपादी च लौकिक्यो ऽप्सरसः स्मृताः
वरूथो ऽथ वरेण्यश्य ततो वसुरुचिः स्मृतः
सुषुवे सा महाभागा रिष्टा देवर्षिपूजिता
मनुवन्ती सुकेशी च तुंबरोस्तु सुते शुभे
मेनका सहजन्या च पर्णिनी पुञ्जिकस्थला
प्रम्लोचेत्यभिविख्यातानुम्लोचैव तु ता दश
कुलोचितानवद्याङ्गी उर्वश्चेकादशी स्मृता
सर्वाश्च ब्रह्मवादिन्यो महाभागाश्च ताः स्मृताः