देवैः सह भविष्यन्ति यज्ञभाजस्तवात्म जाः
विज्ञेयाश्चामराः सर्वे दितिपुत्रास्तरस्विनः
जग्मतुस्त्रिदिवं त्दृष्टौ शक्रमाभूद्गतज्वरः
वादे विजयमाप्नोति लब्धात्मा च भवत्युत
विप्रचित्तिप्रधा नास्ते ऽचिन्तनीयपराक्रमाः
सत्यसंधाः पराक्रान्ताः क्रूरा मायाविनश्च ते
कीर्त्यमानान्मया सर्वान्प्राधान्येन निबोधत
शङ्कुकर्णो विपादश्च गविष्ठो दुन्दुभिस्तथा
मरीचिरसिपाश्चैव महा मायो ऽशिरा भृशी
इन्द्रजिद्विविदश्चैव तथा भद्रश्च देवजित्
वैश्वानरः पुलोमा च प्रापणो ऽथ महाशिराः
धृतराष्ट्रश्च सूर्यश्चचन्द्रमा इन्द्रतापनः
असिलोमा सुकेशश्च शठश्च मूलकोदरः
प्रमदो ऽद्मश्च कुपथो ह्यश्वग्रीवश्च वीर्यवान्
अक्षो हिरण्मयश्चैव शतग्रीवश्च शंबरः
असुराणां स्मृतावेतौ सुराणां च प्रभाविणौ
तेषामपरिसंख्येयं पुत्रपौत्रमनन्तकम्
सुत्वानस्तु स्मृता दैत्या असुत्वानो दनोः सुताः
एकाक्षेश्वप्रभारिष्टः प्रलंबनरकावपि
गरिष्ठश्च गवाक्षश्च तालकेतुश्च वीर्यवान्
दैत्यदानवसंयोगे जाता भीमपराक्रमाः
सैंहिकेयाः समाख्याताश्चतुर्दश महासुराः
इल्वलो नमुचिश्चैव वातापिस्तु सुपुञ्जिकः
राहुर्ज्येष्ठस्तु तेषां वै सूर्यचन्द्रप्रमर्द्दनः
दारुणाभिजनाः क्रूराः सर्वे ब्रह्महणश्च ते
निहता जामदग्न्येन भार्गवेण बलीयसा
उपदानवी सदस्याथ शर्मिष्ठा वृषपर्वणः
प्रभायां नहुषः पुत्रो जयन्तस्तु शचीसुतः
वैश्वानरसुते एते पुलोमा कालका तथा
तयोः पुत्रसहस्राणि षष्टिर्दानवपुङ्गवाः