सुतमित्रो ह्यमित्रश्च सुरमित्रस्तथापरः
धातुश्च धनदश्चैव ह्युग्रो भीमस्तथैव च
अभियुक्ताक्षिकश्चैव साह्वायश्च गणः स्मृतः
मितश्च समितश्चैव पञ्चमश्च तथा गणः
संमितः समवृत्तिश्च प्रतिहर्ता च षड् गणाः
दैत्यदेवाः समाख्याताः सप्तैते सप्तसप्तकाः
प्रसंख्यातास्तदा ताभ्यां दित्या शक्रेण चैव वै
वातस्कन्धांश्चरन्त्वेते भ्रतरो मम पुत्रकाः
तस्यास्तद्वचनं श्रुत्वा महस्राक्षः पुरन्दरः
सर्व मेतद्यथोक्तं ते भविष्यति न संशयः
देवैः सह भविष्यन्ति यज्ञभाजस्तवात्म जाः
विज्ञेयाश्चामराः सर्वे दितिपुत्रास्तरस्विनः
जग्मतुस्त्रिदिवं त्दृष्टौ शक्रमाभूद्गतज्वरः
वादे विजयमाप्नोति लब्धात्मा च भवत्युत
विप्रचित्तिप्रधा नास्ते ऽचिन्तनीयपराक्रमाः
सत्यसंधाः पराक्रान्ताः क्रूरा मायाविनश्च ते
कीर्त्यमानान्मया सर्वान्प्राधान्येन निबोधत
शङ्कुकर्णो विपादश्च गविष्ठो दुन्दुभिस्तथा
मरीचिरसिपाश्चैव महा मायो ऽशिरा भृशी
इन्द्रजिद्विविदश्चैव तथा भद्रश्च देवजित्
वैश्वानरः पुलोमा च प्रापणो ऽथ महाशिराः
धृतराष्ट्रश्च सूर्यश्चचन्द्रमा इन्द्रतापनः
असिलोमा सुकेशश्च शठश्च मूलकोदरः
प्रमदो ऽद्मश्च कुपथो ह्यश्वग्रीवश्च वीर्यवान्
अक्षो हिरण्मयश्चैव शतग्रीवश्च शंबरः
असुराणां स्मृतावेतौ सुराणां च प्रभाविणौ
तेषामपरिसंख्येयं पुत्रपौत्रमनन्तकम्
सुत्वानस्तु स्मृता दैत्या असुत्वानो दनोः सुताः
एकाक्षेश्वप्रभारिष्टः प्रलंबनरकावपि
गरिष्ठश्च गवाक्षश्च तालकेतुश्च वीर्यवान्