ख्यातातपा विनिर्मुक्ताः शुभया चातिबन्धया
उषित्वा रजनीं ते च ब्रह्मणो ऽव्यक्तजन्मनः
ततस्तेषु प्रपन्नेषु जनैस्त्रैलोक्यवासिषु
वृष्ट्या क्षितौ प्लावितायां विजनेष्वर्णवेषु वा
शरमाणा व्रजन्त्येव सलिलाख्यास्तथाचलाः
संछाद्येमां स्थितां भूमिमर्णवाख्यं तदाभवत
स सर्वः समनुप्राप्ता मासां भाभ्यो विभाव्यते
धातुस्तनोति विस्तारं ततोपतनवः स्मृताः
एकार्णवे भवन्त्यापो न शीर्णास्तेन ता नराः
तावत्कालं रजन्यां च वर्तन्त्यां सलिलात्मनः
प्रशान्तवाते ऽन्धकारे निरालोके समन्ततः
विभागमस्य लोकस्य प्रकर्तुं पुनरैच्छत
तदा भवति स ब्रह्मा सहस्राक्षः सहस्रपात्
ब्रह्मा नारायणा ख्यस्तु सुष्वाप सलिले तदा
अनेनाद्येन पादेन पुराणं परिकीर्तितम्
श्रुत्वा तु संहृष्टमनाः कापेयः संशयायति
अथ प्रबृति कल्पज्ञः प्रतिसंधिः प्रचक्षते
एतद्वेदितुमिच्छामि यथावत्कुशलो ह्यसि
त्रैलोक्यस्योद्भवं कृत्स्नमाख्यातुमुपचक्रमे
कल्पं भूतं भविष्यं च प्रतिसंधिश्च यस्तयोः
यश्चायं वर्तते कल्पो वाराहः सांप्रतः शुभः
तस्य चास्य च कल्पस्य मध्यावस्थां निबोधत
अन्यः प्रवर्त्तते कल्पो जनलोकादयः पुनः
व्युच्छिद्यन्ते प्रजाः सर्वाः कल्पान्ते सर्वशस्तदा
मन्वन्तरे युगाख्यानामविच्छिन्नास्तु संधयः
उक्ता ये प्रक्रियार्थेन पूर्वकल्पाः समासतः
आसीत्कल्पे व्यतीते वै परर्द्धात्परमस्तु यः
प्रथमः सांप्रतस्तेषां कल्पों यो वर्तते द्विजाः
एष संस्थितकालस्तु प्रत्याहारस्ततः स्मृतः
चतुर्युगसहस्रति सह मन्वन्तरैः पुरा