त्रैलोक्यविजयं पुत्र भोक्ष्यसे सह तेन वै
एवमुक्त्वा दितिः शक्रं मध्यं प्राप्ते दिवाकरे
केशान्कृत्वा तु पादस्थान्सा सुष्वाप च देवता
ततस्तामशुचिं ज्ञात्वा सोंतरं तदमन्यत
गर्भं निहन्तु वै देव्या स हि दोषो ऽत्र दृश्यते
प्रविश्य चापि तं दृष्ट्वा गभमिन्द्रो महौजसम्
म गर्भो भिद्यमानस्तु वज्रणशतपर्वणा
मारोद मारोद इति गर्भं शक्रो ऽभ्यभाषत
कुलिशेन बिभेदेन्द्रस्ततो दितिरबुध्यता
निष्पपात ततो वज्री मातुर्वचनगौरवात्
अशुचिर्देवि सुप्तासि पादयोर्गतमूर्द्धजा
भिन्नवानहमेतं ते बहुधा क्षन्तुमर्हसि
सहस्राक्षं दुराधर्षं वाक्यं सानुनयाब्रवीत्
नापराधो ऽस्ति देवेश तव पुत्र महाबल
प्रियं तु कृतमिच्छामि श्रेयो गर्भस्य मे कुतः
वातस्कन्धानिमान्सप्त चरन्तु मम पुत्रकाः
पृथिव्यां प्रथमस्कन्धो द्वितीयश्चापि भास्करे
ग्रहेषु पञ्चमस्चैव षष्ठः सप्तर्षिमण्डले
तानेते विचरन्त्वद्य कालेकाले ममात्मजाः
पृथिव्यां प्रथमस्कन्ध आ मेघेब्यो य आवहः
द्वितीयश्चापि मेघेभ्य आसूर्यात्प्रवहस्ततः
सूर्यादूर्ध्वमधः सोमादुद्वहो ऽथ स वै स्मृतः
सोमादूर्द्ध्वमधर्क्षेभ्यश्चतुर्थ संवहस्तु सः
ऋक्षेभ्यश्च तथैवोर्द्ध्वमा ग्रहाद्विवहस्तु यः
ग्रहेभ्य ऊर्द्ध्वमार्षिभ्यः षष्ठो ह्यनुवहश्च यः
ऋषिभ्य ऊर्द्ध्वमाध्रौवं सप्तमो यः प्रकीर्त्तितः
एतान्सर्वाश्चरन्त्वन्ते कालेकाले ममात्मजाः
ततस्तेषां तु नामानि मत्पुत्राणां शतक्रतो
शक्रज्योतिस्तथा सत्यः सत्यज्योतिस्तथापरः
प्रथमो ऽयं गणः प्रोक्तो द्वितीयं तु निबोधत