प्रह्लादः पूर्वजस्तेषामनुह्ना दस्तथापरः
सुंदो निसुन्दश्च तथा ह्रादपुतौ बभूवतुः
मारीचः सुन्दपुत्रस्तु ताडकायामजायत
मूको विनिहतश्चापि कैराते सव्यसाचिना
उत्पन्ना महता चैव तपसा भाविताः स्वयम्
तथा दक्षो सुरश्चण्डश्चत्वारो देत्यनायकाः
ब्रह्मजित्क्रतुजिच्चैव देवान्तकनरान्तकौ
राजाजश्चैव गोमश्च शंभोः पुत्रौ प्रकीर्त्तितौ
बलेः पुत्रशतं जज्ञे राजानः सर्व एव ते
सहस्रबाहुः श्रेष्ठो ऽभूद्बाणो राजा प्रतापवान्
शकुनी पूतना चैव कन्ये द्वे तु बलेः स्मृते
बालेया नाम विख्याता गणा विक्रान्तपौरुषाः
दितिर्विहितपुत्रा वै तोषयामास कश्यपम्
वरेण छन्दयामास सा च वव्रे वरं तत
उक्ते वरे तु मा तुष्टा दितिस्तं समभाषत
हतपुत्रास्मि भगवन्नादित्यैस्तव सूनुभिः
साहं तपश्चरिष्यामि गर्भमाधातुमर्हसि
तस्यास्तद्वचनं श्रुत्वा मारीचः कश्यपस्तदा
एवं भवतु गर्भे तु शुचिर्भव तपोधने
पूर्णं वर्षसहस्रं तु शुचिर्यदि भविष्यसि
एवमुक्त्वा महातेजास्तथा समभावत्तदा
गते भर्त्तरि सा देवी दितिः परमहर्षिता
शक्रस्तु समुपश्रुत्य संवादं तं तयोः प्रभुः
शुश्रूषां ते करिष्यामि मानुज्ञां दातुमर्हसि
यथा त्वं मन्यसे वत्स सुश्रूषाभिरतो भव
वरं श्रुत्वा तु त द्वाक्यं मातुः शक्रः प्रहर्षितः
शुश्रूषते तु तां शक्रः सर्वकालमनुव्रतः
गात्रसंवाहनं काले श्रमापनयने तथा
किञ्चिच्छिष्टे व्रते देवी तुष्टा शक्रमुवाच ह
अवशिष्ठानि भद्रं ते भ्रातरं द्रक्ष्यसे ततः