हिरण्यकशिपुर्दैत्यश्चचार परमं तपः
वरयामास ब्रह्माणं तुष्टं दैत्यो वरेण तु
योगद्देवान् विनिर्जित्य सर्वदेवत्वमास्थितः
दानवास्त्वसुराश्चैव देवाश्च सह चारणैः
एवमुक्तस्तदा ब्रह्मानुजज्ञे सांतरं वरम्
एही दानीं प्रतिज्ञानं भविष्यत्येवमेव तु
सो ऽपि दैत्यस्तदा सर्वं जगत्स्थावरजङ्गमम्
स एव तपति व्योम्नि चन्द्रसूर्यत्वमास्थितः
स गोपालो ऽविपालश्च कर्षकश्च स एव ह
नेता गोप्ता गोपयिता दीक्षितो याजकः स तु
एवंप्रभावो दैत्यो ऽसावतो भूयो निबोधत
हिरण्यकशिपोर्दैत्यैः श्लोको गीतः पुरा त्विह
तस्यै तस्यै तदा देवा नमश्चक्रुर्महर्षिभिः
नरात्तु यस्माज्जन्मास्य नरमूर्त्तिश्च यत्प्रभुः
सागरस्य च वेलायामुच्छ्रित स्तपसो विभुः
नाम्ना सुदर्शनं चैव विश्रुतश्च महाबलः
नखैर्बिभद संक्रुद्धो नार्द्राः शुष्का नखा इति
शंबरः शकुनिश्चैव कालनाभस्तथैव च
हिरण्यक्षसुता ह्येते देवैरपि दुरासदाः
स शतानि सहस्राणि निहतास्तारकामये
प्रह्लादः पूर्वजस्तेषामनुह्ना दस्तथापरः
सुंदो निसुन्दश्च तथा ह्रादपुतौ बभूवतुः
मारीचः सुन्दपुत्रस्तु ताडकायामजायत
मूको विनिहतश्चापि कैराते सव्यसाचिना
उत्पन्ना महता चैव तपसा भाविताः स्वयम्
तथा दक्षो सुरश्चण्डश्चत्वारो देत्यनायकाः
ब्रह्मजित्क्रतुजिच्चैव देवान्तकनरान्तकौ
राजाजश्चैव गोमश्च शंभोः पुत्रौ प्रकीर्त्तितौ
बलेः पुत्रशतं जज्ञे राजानः सर्व एव ते
सहस्रबाहुः श्रेष्ठो ऽभूद्बाणो राजा प्रतापवान्