हरयोनाम ते देवा यज्ञभाजस्तदाभवन्
विकुण्ठायां पुनस्ते वै वरिष्ठा जज्ञिरे सुराः
ततस्ते वै पुनर्देवा वैकुण्ठाः प्राप्य चाक्षुषम्
उपस्थिते पुनः सर्गे मनोर्वैवस्वतस्य ह
जज्ञिरे द्वादशादित्या वर्त्तमानेन्तरं सुराः
शप्ताः स्वयंभुवा साध्या जज्ञिरे द्वादशामराः
जयानां श्रद्धया युक्तः प्रत्यध्यायं तु गच्छति
परिक्रान्ता मया वो ऽद्या किं भूयः श्रोतुमिच्छथ
सर्पभूतापिशा चानां वसूनां पक्षिवीरुधाम्
एवमुक्तस्तदा सूतः प्रत्युवाचर्षिसत्तमम्
कश्यपस्यात्मजौ तौ तु सर्वेभ्यः पूर्वजौ स्मृतौ
हिरण्यकशिपुर्नाम प्रथितं पृथगासनम्
हिरण्य कशिपुस्तस्मात् कर्मणा तेन स समृतः
प्रभावं चैव दैत्यस्य विस्ताराद्ब्रूहि नः प्रभो
ऋषिभिदेंवताभिश्च गन्धर्वैरुपशोभितः
आसनान्युपकॢप्तानि सौवर्णानि तु पञ्च वै
मुख्यर्त्विजस्तु चत्वारस्तेषां तान्युपकल्पयन्
निषसाद सगर्भो ऽत्र तत्रासीनः शशंस च
तं दृष्ट्वा ऋषयस्तस्य नाम कुर्वन्ति वर्द्धितम्
हिरण्यक्षो ऽनुजस्तस्य सिंहिका तस्य चानुजा
हिरण्यकशिपुर्दैत्यश्चचार परमं तपः
वरयामास ब्रह्माणं तुष्टं दैत्यो वरेण तु
योगद्देवान् विनिर्जित्य सर्वदेवत्वमास्थितः
दानवास्त्वसुराश्चैव देवाश्च सह चारणैः
एवमुक्तस्तदा ब्रह्मानुजज्ञे सांतरं वरम्
एही दानीं प्रतिज्ञानं भविष्यत्येवमेव तु
सो ऽपि दैत्यस्तदा सर्वं जगत्स्थावरजङ्गमम्
स एव तपति व्योम्नि चन्द्रसूर्यत्वमास्थितः
स गोपालो ऽविपालश्च कर्षकश्च स एव ह
नेता गोप्ता गोपयिता दीक्षितो याजकः स तु