संहरेत पुनः सर्व्वान्सूर्य्यो ज्योतिर्गणानिव
सर्वे मन्त्रशरीरास्ते स्मृता मन्वन्तरेष्विह
चितिश्च सुचितिश्चैव ह्याकूतिः कूतिरेव च
दाराग्निहोत्रसंबन्धं वितत्य यजतेति च
ततस्ते नाभ्यनन्दन्त तद्वाक्यं परमेष्ठिनः
यमेष्वंवावन्तिष्ठन्ते दोषं दृष्ट्वा तु कर्मसु
जुगुप्संतः प्रसूतिं च निःसत्त्वा निर्ममाभवन्
अर्थं धर्मं च कामं च हित्वा ते वै व्यवस्थिताः
तेषां तु तमभिप्रायं ज्ञात्वा ब्रह्मा तु कोपितः
प्रजार्थमिह यूयं वै मया सृष्टाः स्थ नान्यथा
यस्माद्वाक्यमनादृत्य मम वैराग्यमास्थिताः
कर्मणां न कृतो ऽभ्यासो ह्यमृतत्वाभिकाङ्क्षया
ते शप्ता ब्रह्मणा देवा जयास्तं वै प्रसादयन्
प्रणतान्वै सानुनयं ब्रह्मा तानब्रवीत्पुनः
मयागतं तु सर्वं हि कथमच्छन्दतो मम
लोके यदपि किञ्चिद्वैशं वा शं वा व्यवस्थितम्
भूताना मीहितं यच्च यच्चाप्येषां विचिन्तितम्
मया बद्धमिदं सर्वं चजगत्स्थावरजङ्गमम्
यस्माद्वहति दृप्तो वै सर्वार्थमिह नान्यथा
एवं संभाष्य तान्देवान् जयानध्यात्मचेतसः
यस्मान्मानभिसंधाय सन्यासादिः कृतः सुराः
भविता च सुखोदर्के दिव्यभावेन जायताम्
मन्वन्तरेषु संसिद्धाः सप्तस्वाविर्भविष्यथ
एवं च ब्रह्मणा तत्र श्लोको गीतः पुरातनः
एतानि नित्यैः महसा रजोभिर्भूत्वा विभुर्वसते ऽन्यत्प्रशस्तम्
वैवस्वतेंऽतरेतीते मत्समीपमिहैष्यथ
प्रपन्नाधारणामाद्यां युक्त्वा योगबलान्विताम्
जया इति समाख्याताः कृता एवं विसन्निभाः
पुनस्ते तुषिता देवा जाताः स्वारोचिषेंऽतरे
ततः सत्याः स्मृता देवा औत्तमे चान्तरे मनोः