गुणात्मकत्ववै कल्पये तस्मादेकः स उच्यते
देवं तमेकं बहुधा प्राहुर्नारायणं द्विजाः
मन्वन्तरेषु वै तिस्र आवर्त्तन्ते पुनः पुनः
तेजसा यशसा बुद्ध्या श्रुतेन च बलेन च
राजस्या ब्रह्मणोंऽशेन मारीचः कश्यपो ऽभवत्
सात्त्विक्याश्च तथांशेन यज्ञो विष्णुरजा यत
मन्वन्तरेष्विह स्रष्टुमावर्त्तन्ते पुनः पुनः
युगादौ सकृदुत्पन्नास्तिष्ठन्तीहाप्रसंयमात्
कालो भूत्वा युगात्मासौ रुद्रः संहरते पुनः
भूत्वा संवर्त्तकादित्यस्त्रींल्लोकांश्च दहत्युत
तस्यां तस्यामवस्थायां तत उत्पाद्य कारणम्
तस्याशेन च विज्ञेयो मनोः स्वायंभुवेन्तरे
ततः पुनः स वै देवः प्राप्ते स्वारोचिषे ऽन्तरे
औत्तमे ह्यन्तरे वापि ह्यजितस्तु पुनः प्रभुः
तामसस्यातरे चापि स देवः पुनरेव हि
वैवस्वतेन्तरे चापि हरिर्देवेः पुनस्तु सः
मरीचात्कश्यपाद्विष्णुरदित्यां संबभूव ह
प्रत्यपादयदिन्द्राय दैवतैश्चैव स प्रभुः
मन्वन्तरेष्वतीतेषु याभिः संरक्षिताः प्रजाः
यस्यांशेनामराः सर्वे जायन्ते त्रिदिवेश्वराः
यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा
स एव जायतेंऽशेन केचिदिच्छन्ति मानवाः
एषां न विद्यते भेदस्त्रयाणां द्युसदामिह
जायन्ते पोहयन्त्यं शैरीश्वरा योगमायया
भूतानुवादिना माद्या मध्यस्था भूतवादिनाम्
परीक्ष्य चानुगृह्णन्ति निगृह्णन्ति खलान्स्वयम्
तथाधिकरणैरतैर्यथा तत्त्वनिदर्शकाः
कर्म्मणां महतां ते हि कर्त्तारो जगदीश्वराः
बालिशास्ते न जानन्ति दैवतानि प्रभागशः
कुर्याद्योगबलं प्राप्य तैश्च सर्वैर्महांश्चरेत्