एको ब्रह्मान्तकश्चैव पुरुषश्चैति तत्र यः
ब्राह्मी च पौरुषी चैव कालाख्या चेति ताः स्मृताः
मता सा या तु कालाख्या प्रजाक्षयकरी तु सा
राजसी ब्रह्मणो या तु मारीचः कश्यपो ऽभवत्
तामसी चान्तकृद्या तु तदंशो विष्णुरुच्यते
मता सा या तु कालाख्या प्रजाक्षयकरी तु सा
एवमेताः स्मृतास्तिस्रस्तनवो हि स्वयंभुवः
एतास्तन्वः स्मृता देवा धर्मशास्त्रे पुरातने
अभिजातिप्रभावज्ञैर्मुनिभिस्तत्त्वदर्शिभिः
इदं परमिदं नेति ब्रुवते भिन्नदर्शिनः
केचिद्भवं परत्वेन प्राहुर्विष्णुं तथापरे
सत्त्वं कालं च देशं च कार्यं चावेक्ष्य कर्म च
एकं प्रशंसमानस्तु सर्वानेवप्रशसति
न प्रद्वेषस्ततः कार्यो देवतासु विजानता
एकत्वात्स त्रिधा भूत्वा संप्रमोहयति प्रजाः
जिज्ञासवः परीहन्ते सक्ता दुष्टा विचेतसः
यातुधाना विशेषा ये पिशाचाश्चैव नान्तरम्
गुणमात्रात्मिकाभिस्तु तनुभिर्मोहयन्प्रजाः
तस्माद्देवास्त्रयो ह्येते नैरन्तर्येणधिष्टताः
अल्पत्वं वा बहुत्वं वा तेषु को ज्ञातुमर्हति
गुणात्मकत्ववै कल्पये तस्मादेकः स उच्यते
देवं तमेकं बहुधा प्राहुर्नारायणं द्विजाः
मन्वन्तरेषु वै तिस्र आवर्त्तन्ते पुनः पुनः
तेजसा यशसा बुद्ध्या श्रुतेन च बलेन च
राजस्या ब्रह्मणोंऽशेन मारीचः कश्यपो ऽभवत्
सात्त्विक्याश्च तथांशेन यज्ञो विष्णुरजा यत
मन्वन्तरेष्विह स्रष्टुमावर्त्तन्ते पुनः पुनः
युगादौ सकृदुत्पन्नास्तिष्ठन्तीहाप्रसंयमात्
कालो भूत्वा युगात्मासौ रुद्रः संहरते पुनः
भूत्वा संवर्त्तकादित्यस्त्रींल्लोकांश्च दहत्युत