जज्ञिरे द्वादशादित्या मारीयात्कश्यपात्पुनः
वैवस्वतेंऽतरे ह्यस्मिन्नरनारायणौ तदा
यथा सूर्यस्य लोके ऽस्मिन्नुदयास्तमयावुभौ
अष्टात्मके ऽणिमाद्ये च तस्मात्ते जज्ञिरे सुराः
ब्रह्मशापेन संभूता जयाः स्वायंभुवे जिताः
तामसे हरयो देवा जाताश्चा रिष्टवे तु वै
धातार्यमा च मित्रश्च वरुणोंऽशो भगस्तथा
ततस्त्वष्टा ततो विष्णुरजघन्यो जघन्यजः
सुरभ्यां कश्यपाद्रुद्रा एकादश विजज्ञिरे
अङ्गारकं तथा सर्पं निरृतिं सदसत्पतिम्
भुवनं चेश्वरं मृत्युं कपालीति च विशुतम्
तपसोग्रेण महाता सुरभिस्तानजीजनत्
रोहिणी चैव सुभगां गान्धवी च यशस्विनीम्
सुरूपा हंसकाली च भद्रा कामदुघा तथा
हंसकाली तु महिषान्भद्रायस्त्वविजातयः
उच्चैःश्रवादयो जाताः खेचरास्ते मनोजवाः
उक्ता देवोपवाह्यास्ते गान्धर्वियोनयो हयाः
स्रग्वी ककुद्मान्द्युतिमा नमृतालयसंभवः
इत्येते कश्यपसुता रुद्रादित्याः प्रकीर्त्तिताः
यथेन्धनवशाद्वह्निरेकस्तु बहुधा भवेत्
एको ब्रह्मान्तकश्चैव पुरुषश्चैति तत्र यः
ब्राह्मी च पौरुषी चैव कालाख्या चेति ताः स्मृताः
मता सा या तु कालाख्या प्रजाक्षयकरी तु सा
राजसी ब्रह्मणो या तु मारीचः कश्यपो ऽभवत्
तामसी चान्तकृद्या तु तदंशो विष्णुरुच्यते
मता सा या तु कालाख्या प्रजाक्षयकरी तु सा
एवमेताः स्मृतास्तिस्रस्तनवो हि स्वयंभुवः
एतास्तन्वः स्मृता देवा धर्मशास्त्रे पुरातने
अभिजातिप्रभावज्ञैर्मुनिभिस्तत्त्वदर्शिभिः
इदं परमिदं नेति ब्रुवते भिन्नदर्शिनः