दिशः श्रोत्रे विद्धि पादौ क्षितिं च सो ऽचिन्त्यात्मा सर्वभूतप्रणेता
वैश्या ऊरुभ्यां यस्य पद्भ्यां च शूद्राःसर्वेवर्णा गात्रतः संप्रसूताः
अण्डजस्तु स्वयं ब्रह्मा लोकास्तेन कृताः स्वयम्
ते लोका ब्रह्मलोकं वै अपरावर्तिनीं गतिम्
भवन्ति ब्रह्मणा तुल्या रूपेण विषयेण च
अवश्यंभाविनार्थेन प्राकृतं तनुते स्वयम्
स्वपतो ऽबुद्धिपूर्व हि बोधो भवति वै यथा
प्रत्याहारैस्तु भेदानां तेषां हि न तु शुष्मिणाम्
नानात्वदर्शिनां तेषां ब्रह्मलोकनिवासिनाम्
तुल्यलक्षण सिद्धास्तु शुभात्मानो निरञ्जनाः
प्रस्थापयित्वा चात्मानं प्रकृतिस्त्वेष तत्तवतः
प्रवर्तते पुनः सर्गस्तेषां साकारणात्मनाम्
तत्रोपवर्गिणी तेषामपुनर्भारगामिनाम्
ततरतेषु गतेषूर्द्धं त्रैलोक्यात्तु मुदात्मसु
तच्छिष्या ये ह तिष्ठन्ति कल्पदाह उपस्थिते
पशवः पक्षिणश्चैव स्थावराः ससरीसृपाः
सहस्रंयत्तु रश्मीनां सूर्यस्येह विनश्यति
क्रमेण शतमानास्ते त्रींल्लोकान्प्रदहन्त्युत
शुष्के पूर्वमनावृष्ट्या चैस्तैशचैव प्रतापिताः
जङ्गमाः स्थावराश्चैव धर्माधर्मादिकास्तु वै
ख्यातातपा विनिर्मुक्ताः शुभया चातिबन्धया
उषित्वा रजनीं ते च ब्रह्मणो ऽव्यक्तजन्मनः
ततस्तेषु प्रपन्नेषु जनैस्त्रैलोक्यवासिषु
वृष्ट्या क्षितौ प्लावितायां विजनेष्वर्णवेषु वा
शरमाणा व्रजन्त्येव सलिलाख्यास्तथाचलाः
संछाद्येमां स्थितां भूमिमर्णवाख्यं तदाभवत
स सर्वः समनुप्राप्ता मासां भाभ्यो विभाव्यते
धातुस्तनोति विस्तारं ततोपतनवः स्मृताः
एकार्णवे भवन्त्यापो न शीर्णास्तेन ता नराः
तावत्कालं रजन्यां च वर्तन्त्यां सलिलात्मनः