अङ्गानि धर्मशास्त्रं च व्रतानि नियमास्तथा
महदादिविशेषान्तं सृजामीति विनिश्चयः
अडस्यावरणं वार्धिरपामपि च तेजसा
भूतादिर्महता चैव अव्यक्तेनावृतो महान्
नदीनां पर्वतानां च प्रादुर्भावो ऽत्र पठ्यते
कीर्त्तनं ब्रह्मवृक्षस्य ब्रह्मजन्म प्रकीर्त्यते
अवस्थाश्चात्र कीर्त्यन्ते ब्रह्मणो ऽव्यक्तजन्मनः
शयनं च हरेरप्सु पृथिव्युद्धरणं तथा
ऋक्षाणां ग्रहसंस्थानां सिद्धानां च निवेशनम्
स्वर्गस्थानविभागश्च सर्त्यानां शुभचारिणाम्
देवतानामृषीणां च द्वे सृती परिकीर्तिते
पशूनां पुरुषाणां च संभवः परिकीर्त्तितः
नव सर्गाः पुनः प्रोक्ता ब्रह्मणो बुद्धिपूर्वकाः
ब्रह्मणो ऽवयवेभ्यश्च धर्मादीनां समुद्भवः
कल्पयोरन्तरे प्रोक्तं प्रतिसंधिश्च यस्तयोः
सत्त्वोद्रिक्ताच्च देहाच्च पुरुषस्य च संभवः
प्रियव्रतोत्तानपादौ प्रसूत्याकृतयः शुभाः
रुचेः प्रजापतेश्चोर्द्धमाकूत्यां मिथुनोद्भवः
दाक्षायणीषु वाप्यूर्ध्वंशब्दाद्यासु महात्मनः
तथाधर्मस्य हिंसायां तमसो ऽशुभलक्षणः
ब्रह्मर्षेश्च वसिष्ठस्य यत्र गोत्रानुकीर्त्तनम्
पितॄणां द्विप्रकाराणां स्वधायां तदनन्तरम्
दक्षस्य शापः सत्याश्च भृग्वादीनां च धीमताम्
प्रतिषेधश्च वैरस्य कीर्त्यते दोषदर्शनात्
प्रजापतेः कर्द्दमस्य कन्यायाः शुभलक्षणम्
तेषां नियोगो द्वीपेषु देशेषु च पृथक् पृथक्
वर्षाणां च नदीनां च तद्भेदानां च सर्वशः
विस्तरान्मण्डलं चैव जंबूद्वीपसमुद्रयोः
नीलः श्वेतश्च शृङ्गी च कीर्त्यन्ते सप्त पर्वताः
तेषामन्तरविष्कंभा उच्छ्रायायामविस्तराः