शङ्कुच्छाया विशेषेण वेदितव्याः प्रमाणतः
आग्नेयश्चापि विज्ञेयः प्राजापत्यस्तथैव च
सावित्रश्च तथा त्वाष्ट्रो वायव्यश्चेति संग्रहः
इन्दोर्गत्युदया ज्ञेया नाडिका आदितस्तथा
सर्वग्रहाणां त्रीण्येव स्थानानि विहितानि च
स्थानं जारद्गवं सध्ये तथैरावतमुत्तरम्
अश्विनी कृत्तिका याम्यं नागवीथीति विश्रुता
पुष्याश्लेषे तथादित्यं वीथी चैरावती मता
पूर्वोत्तरे च फल्गुन्यौ मघा चैवार्षभी स्मृता
ज्येष्ठा विशाखानुराधा वीथी जारद्गवी मता
मूलं पूर्वोत्तराषाढे अजवीथ्याभिशब्दिते
वैश्वानरी भाद्रपदे रेवती चैव कीर्त्तिता
अष्टाविशति याः कन्या दक्षः सोमाय ता ददौ
तासामपत्यान्यभवन्दीप्तयो ऽमिततेजसः
चतुर्दशा महाभागाः सर्वास्ता लोकमातरः
सुरभिर्विनता ताम्रा मुनिः क्रोधवशा तथा
स्वायंभुवे ऽन्तरे तात ये द्वादश सुरोत्तमाः
उपस्थितेंऽतरे ह्यस्मिन्पुनर्वैवस्वतस्य ह
एतामेव महाभागामदितिं संप्रविश्य वै
गच्छेम पुत्रतामस्यास्तन्नः श्रेयो भविष्यति
जज्ञिरे द्वादशादित्या मारीयात्कश्यपात्पुनः
वैवस्वतेंऽतरे ह्यस्मिन्नरनारायणौ तदा
यथा सूर्यस्य लोके ऽस्मिन्नुदयास्तमयावुभौ
अष्टात्मके ऽणिमाद्ये च तस्मात्ते जज्ञिरे सुराः
ब्रह्मशापेन संभूता जयाः स्वायंभुवे जिताः
तामसे हरयो देवा जाताश्चा रिष्टवे तु वै
धातार्यमा च मित्रश्च वरुणोंऽशो भगस्तथा
ततस्त्वष्टा ततो विष्णुरजघन्यो जघन्यजः
सुरभ्यां कश्यपाद्रुद्रा एकादश विजज्ञिरे
अङ्गारकं तथा सर्पं निरृतिं सदसत्पतिम्