प्रत्यूषश्च प्रभासश्च वसवो ऽष्टौ प्रकीर्तिताः
ध्रुवपुत्रो ऽभवत्तात कालो लोकाप्रकालनः
धरोर्मी कलिलश्चैव पञ्च चन्द्रमसः सुताः
स्कन्दः सनत्कुमारश्च जज्ञे पादेन तेजसः
तस्य शाखो विशाखश्च नैगमेयश्च प्रष्टजाः
अविज्ञान गतिश्चैव द्वौ पुत्रावनिलस्य च
द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ
योगसिद्धा जगत्कृत्स्नमशक्ता चरति स्म ह
विश्वकर्मा सुतस्तस्याः प्रजापतिपतिर्विभुः
क्रतुर्दक्षः श्रवः सत्यः कालः मुनिस्तथा
धर्मपुत्राः सुरा एते विश्वायां जज्ञिरे शुभाः
मुहूर्ताश्च मुहूर्ताया घोषलंबा ह्यजायत
नव वीथ्यस्तु जामायाः पथत्रयमुपाश्रिताः
एष सर्गः समाख्यातो विद्वान्धर्मस्य शाश्वतः
नामतः संप्रवक्ष्यामि ब्रुवतो मे निबोधत
मुहुर्त्ताः सर्वनक्षत्रा अहोरात्रभिदस्तथा
रवेर्गति विशेषेण सर्वर्त्तुषु च नित्यशः
अविशेषेषु कालेषु ज्ञेयः सवितृमानतः
आप्यो ऽथ वैश्वदेवश्च ब्राह्मो मध्याह्नसंश्रितः
वारुणश्च यथार्यम्णो भगश्चापि दिनश्रिताः
शङ्कुच्छाया विशेषेण वेदितव्याः प्रमाणतः
आग्नेयश्चापि विज्ञेयः प्राजापत्यस्तथैव च
सावित्रश्च तथा त्वाष्ट्रो वायव्यश्चेति संग्रहः
इन्दोर्गत्युदया ज्ञेया नाडिका आदितस्तथा
सर्वग्रहाणां त्रीण्येव स्थानानि विहितानि च
स्थानं जारद्गवं सध्ये तथैरावतमुत्तरम्
अश्विनी कृत्तिका याम्यं नागवीथीति विश्रुता
पुष्याश्लेषे तथादित्यं वीथी चैरावती मता
पूर्वोत्तरे च फल्गुन्यौ मघा चैवार्षभी स्मृता
ज्येष्ठा विशाखानुराधा वीथी जारद्गवी मता