वैरण्यामेव पुत्राणां सहस्रमसृजत्प्रभुः
पूर्वमुक्तं वचस्तद्वै श्राविता नारदेन ह
भ्रातॄणां पदवीं चैव गन्तव्या नात्र संशयः
प्रकाशाः स्वस्थमनसा यथावदनुशासिताः
अद्यापि न निवर्त्तन्ते विस्तारायमलिप्सवः
प्रयतो नश्यति क्षिप्रं तन्न कार्यं विजानता
नारदं नाशमेहीति गर्भवासं वसेति च
षष्टिं दक्षो ऽसृजत्कन्या वैरण्यामेव विश्रुताः
धर्मः सोमश्च भगवांस्तथा चान्ये महर्षयः
आयुष्मान्कीर्त्तिमान्धन्यः प्रजावाश्च भवत्युत
उत्पत्तिं विस्तरेणैव ग्रूहि वैवस्वतेंऽतरे
अरुन्धतीवसुर्जामालंबा भानुर्मरुत्वती
धर्मस्य पत्न्यो दश ता दक्षः प्राचेतसो ददौ
देवेभ्यस्तान्परान्देवान्दैवज्ञाः परिचक्षते
सर्वे मन्त्रशरीरस्ते समृता मन्वन्तरेष्विह
वित्तिश्चैव विवित्तिश्च आकूतिः कूतिरेव च
नामान्येतानि तेषां वै यज्ञानां प्रथितानि च
स्वारोचिषे वै तुषिताः सत्यश्चैवोत्तमे पुनः
ते साध्याश्चाक्षुषे नाम्ना छन्दजा जज्ञिरे सुराः
पूर्वं समनुसूयन्ते चाक्षुषस्यान्तरे मनोः
तुषिता नाम ते ऽन्योन्यमूचुर्वै चाक्षुषेंऽतरे
एतामेव महाभागां वयं साध्यां प्रविश्य वै
एवमुक्त्वा तु ते सर्वे चाक्षुषस्यान्तरे मनोः
नरनारायणो तत्र जज्ञाते पुनरेव हि
स्वारोचिषेंऽतरे पूर्वमास्तां तौ तुषितासुतौ
मनो ऽनुमन्ता प्राणश्च नरो ऽपानश्च वीर्यवान्
विभुश्चापि प्रभुश्चापि साध्या द्वादश जज्ञिरे
नामान्यासन्पुनस्तानि तुषितानां निबोधत
चक्षुः श्रोत्रं रसो घ्राणं स्पर्शो बुद्धिर्मनस्तथा
वसोस्तु वसवः पुत्राः साध्यानामनुजाः स्मृताः