यक्षभूतपिशाचांश्च वयः पशुमृगांस्तथा
अपध्याता भगवता महादेवेन धीमता
असिक्रीमावहद्भार्यां वीरणस्य प्रजापतेः
यया धृतमिदं सर्वं जगत्स्थावरजङ्गमम्
दक्षस्योद्वहतो भार्यांमसिक्रीं वैरणीं पुरा
नदीगिरिष्बसज्जन्तं पृष्ठतो ऽनुययौ प्रभुम्
प्रथमो ऽत्र द्वितीयस्तु दक्षः स हि प्रजापतिः
असिक्रीं वैरणीं तत्र दक्षः प्राचेतसो ऽवहत्
असिक्न्यां जनयामास दक्षः प्राचे तसः प्रभुः
देवर्षिप्रियसंवादो नारदो ब्रह्मणः सुतः
यः कश्यपसुतस्याथ परमेष्ठी व्यजायत
तस्मात्स काश्यपस्याथ द्वितीयो मानसो ऽभवत्
तेन वृक्षस्य पुत्रा वै हर्यश्वा इति विश्रुताः
तस्योद्यतस्तदा दक्षः क्रुद्धः शापाय वै प्रभुः
ततो ऽभिसंधिं चक्रे वै दक्षश्च परमेष्ठिना
तस्मात्स नारदो जज्ञे भूयः शापभयदृषिः
प्रजापतिसुतास्ते वै श्रोतुमिच्छामि तत्त्वतः
समागता महावीर्या नारदस्तानुवाच ह
अन्तरूर्ध्वमधश्चैव कथं स्रक्ष्यथ वै प्रजाः
अधापि म निवर्त्तन्ते समुद्रस्था इवापगाः
वैरण्यामेव पुत्राणां सहस्रमसृजत्प्रभुः
पूर्वमुक्तं वचस्तद्वै श्राविता नारदेन ह
भ्रातॄणां पदवीं चैव गन्तव्या नात्र संशयः
प्रकाशाः स्वस्थमनसा यथावदनुशासिताः
अद्यापि न निवर्त्तन्ते विस्तारायमलिप्सवः
प्रयतो नश्यति क्षिप्रं तन्न कार्यं विजानता
नारदं नाशमेहीति गर्भवासं वसेति च
षष्टिं दक्षो ऽसृजत्कन्या वैरण्यामेव विश्रुताः
धर्मः सोमश्च भगवांस्तथा चान्ये महर्षयः
आयुष्मान्कीर्त्तिमान्धन्यः प्रजावाश्च भवत्युत