सप्तवर्षसहस्राणि ततः सो ऽप्रतिमो ऽभवत्
मन्वन्तरेषु सर्वेषु ब्रह्मणोंऽशेन जायते
अपिबत्स तदा कश्यं कश्यं मद्यमिहोच्यते
कश्यं मद्यं स्मृतं विप्रैः कश्यपानां तु कश्यपः
दक्षाभिशप्तः कुपितः कश्यपस्तेन सो ऽभवत्
तस्मै प्राचेतसो दक्षः कन्यास्ताः प्रत्यपादयत्
इत्येतमृषिसर्गं तु पुण्यं यो वेद वारुणम्
धारणाच्छ्रवणाद्वापि सर्वपापैः प्रमुच्यते
प्रजाः सृजेति व्यदिष्टः स्वयं दक्षः स्वयंभुवा
मानसानि च भूतानि स पूर्वमसृजत्प्रभुः
यक्षभूतपिशाचांश्च वयः पशुमृगांस्तथा
अपध्याता भगवता महादेवेन धीमता
असिक्रीमावहद्भार्यां वीरणस्य प्रजापतेः
यया धृतमिदं सर्वं जगत्स्थावरजङ्गमम्
दक्षस्योद्वहतो भार्यांमसिक्रीं वैरणीं पुरा
नदीगिरिष्बसज्जन्तं पृष्ठतो ऽनुययौ प्रभुम्
प्रथमो ऽत्र द्वितीयस्तु दक्षः स हि प्रजापतिः
असिक्रीं वैरणीं तत्र दक्षः प्राचेतसो ऽवहत्
असिक्न्यां जनयामास दक्षः प्राचे तसः प्रभुः
देवर्षिप्रियसंवादो नारदो ब्रह्मणः सुतः
यः कश्यपसुतस्याथ परमेष्ठी व्यजायत
तस्मात्स काश्यपस्याथ द्वितीयो मानसो ऽभवत्
तेन वृक्षस्य पुत्रा वै हर्यश्वा इति विश्रुताः
तस्योद्यतस्तदा दक्षः क्रुद्धः शापाय वै प्रभुः
ततो ऽभिसंधिं चक्रे वै दक्षश्च परमेष्ठिना
तस्मात्स नारदो जज्ञे भूयः शापभयदृषिः
प्रजापतिसुतास्ते वै श्रोतुमिच्छामि तत्त्वतः
समागता महावीर्या नारदस्तानुवाच ह
अन्तरूर्ध्वमधश्चैव कथं स्रक्ष्यथ वै प्रजाः
अधापि म निवर्त्तन्ते समुद्रस्था इवापगाः