महदाद्या विशेषान्ता विकाराः प्राकृताः स्वयम्
नदीभिश्च समुद्रैश्च पर्वतैश्च सहस्रशः
अस्मिन् ब्रह्मवने ऽव्यक्तो ब्रह्मा चरति सर्ववित्
बुद्धिस्कन्धमयश्चैव इन्द्रियान्तरकोटरः
धर्माधर्मसुपुष्पस्तु सुखदुःखफलोदयः
एतद्ब्रह्मवनं चैव ब्रह्मवृक्षस्य तस्य तत्
प्रधानं प्रकृतिंमायां चैवाहुस्तत्त्वचिन्तकाः
अबुद्धिपूर्वकाः सर्गा ब्रह्मणः प्राकृतास्त्रयः
वैकल्पात्संप्रवर्तन्ते ब्रह्मणस्तेभिमन्यवः
सर्गाः परस्परोत्पन्नाः कारणं तु बुधैः स्मृतम्
दिशः श्रोत्रे विद्धि पादौ क्षितिं च सो ऽचिन्त्यात्मा सर्वभूतप्रणेता
वैश्या ऊरुभ्यां यस्य पद्भ्यां च शूद्राःसर्वेवर्णा गात्रतः संप्रसूताः
अण्डजस्तु स्वयं ब्रह्मा लोकास्तेन कृताः स्वयम्
ते लोका ब्रह्मलोकं वै अपरावर्तिनीं गतिम्
भवन्ति ब्रह्मणा तुल्या रूपेण विषयेण च
अवश्यंभाविनार्थेन प्राकृतं तनुते स्वयम्
स्वपतो ऽबुद्धिपूर्व हि बोधो भवति वै यथा
प्रत्याहारैस्तु भेदानां तेषां हि न तु शुष्मिणाम्
नानात्वदर्शिनां तेषां ब्रह्मलोकनिवासिनाम्
तुल्यलक्षण सिद्धास्तु शुभात्मानो निरञ्जनाः
प्रस्थापयित्वा चात्मानं प्रकृतिस्त्वेष तत्तवतः
प्रवर्तते पुनः सर्गस्तेषां साकारणात्मनाम्
तत्रोपवर्गिणी तेषामपुनर्भारगामिनाम्
ततरतेषु गतेषूर्द्धं त्रैलोक्यात्तु मुदात्मसु
तच्छिष्या ये ह तिष्ठन्ति कल्पदाह उपस्थिते
पशवः पक्षिणश्चैव स्थावराः ससरीसृपाः
सहस्रंयत्तु रश्मीनां सूर्यस्येह विनश्यति
क्रमेण शतमानास्ते त्रींल्लोकान्प्रदहन्त्युत
शुष्के पूर्वमनावृष्ट्या चैस्तैशचैव प्रतापिताः
जङ्गमाः स्थावराश्चैव धर्माधर्मादिकास्तु वै