दिव्यानुसुषुवे कन्या काव्यस्यैवानुजा प्रभोः
क्रतुः शुचिः स्वमूर्द्धा च व्याजश्च वसुदश्च यः
इत्येते भृगवो देवाः स्मृता द्वादश यज्ञियाः
व्यादितः सो ऽष्टमे मासिगर्भः क्रूरेण रक्षसा
प्रचेताः श्च्यवनः क्रोधाद्दग्धवान्पुरुषादकान्
आप्रवानं दधीचं च तावुभौ साधुसंमतौ
ऋची पत्नी महाभागा अप्रवानस्य नाहुषी
और्वस्यासीदृचीकस्तु दीप्तो ऽग्निसमतेजसा
भृगोश्चरुविपर्यासे रौद्रवैष्णवयौः पुरा
रेणुकाजमदग्नेश्च शक्रतुल्यपराक्रमम्
ओर्वस्यासीत्पुत्रशतं जमदग्निपुरोगमम्
ऋष्यतरेषु वै बाह्या बहवो भार्गवाः स्मृताः
मित्रेयुः सप्तमा ह्येते पक्षा ज्ञेयास्तु भार्गवाः
यस्यान्ववाये संभूता भारद्वाजाः सगौतमाः
सुरूपा चैव मारीची कार्दमी च तथा स्वराट्
अथर्वणस्तु दायादास्तासु जाताः कुलोद्वहाः
बृहस्पतिं सुरूपायां गौतमं सुषुवे स्वराट्
धृष्णिः पुत्रस्तु पथ्यायाः संवर्त्तश्चैव मानसः
अथोशिजो दीर्घतमा बृहदुक्थो वामदेवजः
रथकाराः स्मृता देवा ऋभवो ये परिश्रुताः
बृहस्पतिं सुरूपायां गौतमं सुषुवे स्वराट्
आधार्यायुर्द्दनुर्दक्षो दमः प्राणस्त थैव च
अयास्याश्चप्युतथ्याश्च वामदेवास्तथौशिजाः
मुद्गला विष्णुवृद्धाश्च हरिताः कपयस्तथा
एते चाङ्गिरसां पक्षा विज्ञेया दश पञ्च च
मरीचेरपि वक्ष्यामि भेद मुत्तमपूरुषम्
मरीचिरापश्चकमे नाभिध्यायन्प्रजेप्सया
संयुज्यात्मानमेवन्तु तपसा भावितः प्रभुः
तासु प्रणिहितात्मानमेकं सो ऽजनयत्प्रभुः
पुत्रं मरीचिस्तपसि निरतः सो ऽप्स्वतीतपत्