अन्ये प्रजानां पतयः श्रोतोभ्यस्तस्य जज्ञिरे
अयने ऋतवो मासर्द्धमासाः पक्षसंधयः
रौद्रं लोहितमित्याहुर्लोहितं कनकं स्मृतम्
ये ऽर्चिषस्तस्य ते रुद्रास्तथादित्याः समृद्गताः
आदिभूतो ऽस्य लोकस्य ब्रह्मा त्वं ब्रह्मसंभवः
ब्रह्मा सुरगुरुस्तत्र त्रिदशैः संप्रसादितः
सर्वे प्रजानां पतयः सर्वे चापि तपस्विनः
त्वद्वंशवर्द्धनाः शश्वत्तव तेजोविवर्द्धनाः
वेदमन्त्रधराः सर्वे प्रजापतिसमुद्भवाः
सर्वे हि वयमेते च तवैव प्रसवः प्रभो
मरीचिमादितः कृत्वा देवाश्च ऋषिभिः सह
तस्मिन् यज्ञे महाभागा देवाश्च ऋषयश्च ये
तव तेनैव रूपेण स्थापयेयुरिमाः प्रजाः
ततो ऽब्रवील्लोकगुरुः परमित्यभिधार यन्
भवतां वंशसंभूताः पुनरेते महर्षयः
विस्तरेणानुपूर्व्या च प्रथमस्य प्रजापतेः
हिरण्यकशिपो कन्या दिव्या नाम परिश्रुता
भृगोस्त्वजनयद्दिव्या पुत्रं ब्रह्मविदां वरम्
शुक्र एवोशना नित्यमतः काव्यो ऽपि नामतः
शुक्रस्य भार्या गौर्नाम विजज्ञे चतुरः सुतान्
तेजसादित्यसंकाशा ब्रह्मकल्पाः प्रभावतः
वरत्रिणः सुता ह्येते ब्रह्मिष्ठा दैत्ययाजकाः
निरस्यमानं वै धर्मं दृष्ट्वेन्द्रो मनुमाब्रवीत्
श्रुत्वेन्द्रस्य तु तद्वाक्यं तस्माद्देशादपाक्रमन्
ग्रहेण मोचयित्वा च ततश्चानुससार ताम्
तानागतान्पुनर्दृष्ट्वा दुष्टानिन्द्रो विहस्य तु
तेषां तु धृष्यमाणानां तत्र शालावृकैः सह
एवं वरत्रिणः पुत्रा इन्द्रेण निहताः पुरा
त्रिशिरा विश्वरूपस्तु त्वष्टुः पुत्रो ऽभवन्महान्
विश्वरूपानुजश्चैव विश्वकर्मा च यः स्मृतः