पुत्रत्वे कल्पयामास महादेव स्तदा भृगुम्
द्वितीयं च ततः शुक्रमङ्गारेष्वजुहोत्प्रभुः
संभूतिं तस्य तां दृष्ट्वा वह्निर्ब्रह्माणमब्रवीत्
एवमस्त्विति सो ऽप्युक्तो ब्रह्मणा सदसस्पतिः
षट् कृत्वा तु पुनः शुक्रे ब्रह्मणा लोककारिणा
मरीचिः प्रथमं तत्र मरीचिभ्यः समुत्थितः
अहं तृतीय इत्यत्रिस्तस्मादत्रिः स कीर्त्यते
केशैर्लंबैः समुद्भूतस्तस्मात्स पुलहः स्मृतः
वसिष्ठ इति तत्त्वज्ञैः प्रोच्यते ब्रह्मवादिभिः
लोकस्य सन्तानकरा यैरिमा वर्द्धिताः प्रजाः
अपरे पितरो नाम एतैरेव महर्षिभिः
अजेयाश्च गणाः सप्त सप्तलोकेषु विश्रुताः
पौलस्त्याः पौलहाश्चैव वासिष्ठाश्चैव विश्रुताः
एते समासतः ख्याताः पुनरन्ये गणास्त्रयः
तेषां राजायमो देवो यमैर्विहतकल्मषः
कश्यपः कर्दमः शेषो विक्रान्तः सुश्रवास्तथा
प्रचेतसोरिष्टनेमिर्बहुलश्च प्रजापतिः
कुशोच्चया वालखिल्याः सभूताः परमर्षयः
जाताश्च भस्मनो ह्यन्ये ब्रह्मर्षिगणसंमताः
नस्तो द्वावस्य चोत्पन्नावश्विनौ रूपसंमतौ
अन्ये प्रजानां पतयः श्रोतोभ्यस्तस्य जज्ञिरे
अयने ऋतवो मासर्द्धमासाः पक्षसंधयः
रौद्रं लोहितमित्याहुर्लोहितं कनकं स्मृतम्
ये ऽर्चिषस्तस्य ते रुद्रास्तथादित्याः समृद्गताः
आदिभूतो ऽस्य लोकस्य ब्रह्मा त्वं ब्रह्मसंभवः
ब्रह्मा सुरगुरुस्तत्र त्रिदशैः संप्रसादितः
सर्वे प्रजानां पतयः सर्वे चापि तपस्विनः
त्वद्वंशवर्द्धनाः शश्वत्तव तेजोविवर्द्धनाः
वेदमन्त्रधराः सर्वे प्रजापतिसमुद्भवाः
सर्वे हि वयमेते च तवैव प्रसवः प्रभो