स्वायंभुवेन्तरे प्राप्ताः सृष्ट्यर्थं ते भवेन तु
देवस्य महतो यज्ञे वारुणीं बिभ्रतस्तनुम्
ऋषयो जज्ञिरे दीर्घे द्वितीयमिति नः श्रुतम्
अत्रिश्चैव वसिष्ठश्च ह्यष्टौ ते ब्रह्मणः सुताः
यज्ञाङ्गानि च सर्वाणि वषठ्कारश्च मूर्त्तिमान्
ऋग्वेदश्चाभवत्तत्र यश्च क्रमविभूषितः
स्थितो यज्ञार्थसंपृक्तः सूक्तब्राह्मणमन्त्रवान्
विश्वावस्वादिभिः सार्द्धं गन्धर्वैः संभृतो ऽभवत्
प्रत्यङ्गिरसयोगैश्च द्विशरीरशिरो ऽभवत्
आश्रयस्तु वषट्कारो निग्रहप्रग्रहावपि
देवकन्याश्च पत्न्यश्च तथा मातर एव च
मूर्तिमन्तः सुरूपाख्या वरुणस्य वपुर्भृतः
ब्रह्मर्षिभाविनोर्ऽथस्य विधानाच्च न संशयः
आस्रवज्जुहुयां चक्रे मन्त्रवच्च पितामहः
तस्यार्वाक्तेजसश्चैव जज्ञे लोकेषु तैजसम्
आज्यस्थाल्यामुपादाय स्वशुक्रं हुतवांश्च ह
ज्वलन्तो वपुषा युक्ताः सप्रभावैः स्वकैर्गुणैः
हिरण्यगर्भस्तं दृष्ट्वा ज्वालां भित्त्वा विनिर्गतम्
महादेवस्तथोद्भूतो दृष्ट्वा ब्रह्माणमब्रवीत्
विजज्ञे प्रथमं देव मम पुत्रो भवत्वयम्
पुत्रत्वे कल्पयामास महादेव स्तदा भृगुम्
द्वितीयं च ततः शुक्रमङ्गारेष्वजुहोत्प्रभुः
संभूतिं तस्य तां दृष्ट्वा वह्निर्ब्रह्माणमब्रवीत्
एवमस्त्विति सो ऽप्युक्तो ब्रह्मणा सदसस्पतिः
षट् कृत्वा तु पुनः शुक्रे ब्रह्मणा लोककारिणा
मरीचिः प्रथमं तत्र मरीचिभ्यः समुत्थितः
अहं तृतीय इत्यत्रिस्तस्मादत्रिः स कीर्त्यते
केशैर्लंबैः समुद्भूतस्तस्मात्स पुलहः स्मृतः
वसिष्ठ इति तत्त्वज्ञैः प्रोच्यते ब्रह्मवादिभिः
लोकस्य सन्तानकरा यैरिमा वर्द्धिताः प्रजाः