यस्माद्भूतस्य लोकस्य भव्यस्य भवतस्तथा
प्रधानभूता देवेन्द्रा गुणभूतास्तथैव च
यज्ञगन्धर्वरक्षांसि पिशाचो रगमानुषाः
देवेन्द्रा गुरवो नाथा राजानः पितरो हि ते
इत्येतल्लक्षणं प्रोक्तं देवेन्द्राणां समासतः
गाधिजः कौशिको धीमान्विश्वामित्रो महातपाः
बृहस्पतिसुतश्चापि भरद्वाजो महा यशाः
स्वायंभुवो ऽत्रिर्भगवान्ब्रह्मकोशः सपञ्चमः
वत्सरः काश्यपश्यैव सप्तैते साधुसंमताः
इक्ष्वाकुश्च नृगश्चैव धृष्टः शर्यातिरेब च
करूषश्च पृषध्रश्च पांशुश्चनवमः स्मृतः
कीर्तिता वै तथा ह्येते सप्तमं चैतदन्तरम्
विस्तरेणानुपूर्व्या च भूयः किं कथयाम्यहम्
तृतीयं विस्तरात्पादं सोपोद्धातं प्रवर्त्तय
पादं समुच्चयाद्विप्रा गदतो मे निबोधत
विस्तरेणानुपूर्व्या च निसर्गं शृणुत द्विजाः
मह देवगणैश्चैव ऋषिभिर्दानवैस्सह
मानुषैः पशुभिश्चैव पक्षिभिः स्थावरैः सह
वक्ष्ये वैवस्वतं सर्गं नमस्कृत्य विवस्वते
स्वायंभुवेंऽतरे पूर्वं सप्तासन्ये महर्षयः
दक्षस्य च ऋषीणां च भृग्वादीनां महौजसाम्
भूयः सप्तर्षयस्त्वेवमुत्पन्नाः सप्त मानसाः
प्रजासंतानकृद्भिस्तैरुत्पदद्भिर्महात्मभिः
तेषां प्रसूतिं वक्ष्यामि विशुद्धज्ञानकर्मणाम्
पुनरापूरितः सर्वो ग्रहनक्षत्रमण्डितः
पुत्रत्वे कल्पिताश्चैव तन्नो निगद सत्तम
मनोरन्तरमासाद्य पुनर्वैवस्वतं किल
उपपन्ना जने लोके सकृदागमनास्तु त
एत एव महाभागा वरुणे वितते ऽध्वरे
पितामहात्मजाः सर्वे तन्नः श्रेयो भविष्यति