दौहित्रश्चैव सोमस्य कथं श्र्वशुरतां गतः
ऋषयो ऽत्र न सुह्यन्ति विद्यावन्तश्च ये जनाः
पुनश्चैव निरुध्यन्ते विद्वांस्तत्र न मुह्यति
तप एव गरीयो ऽभूत्प्रभावश्चैव कारणम्
प्रजावानायुषस्तीर्णः स्वर्गलोके महीयते
इत्येते षट् निसर्गाश्च क्रान्ता मन्वन्तरात्मकाः
एते सर्गा यथा प्राज्ञैः प्रोक्ता ये द्विजसत्तमाः
अन्यूनानतिरिक्तास्ते सर्वे सर्गा विवस्वतः
एतानेव गुणानेति यः पठन्ननसूयकः
समासव्यासतः सर्गं ब्रुवतो मे निबोधत
मारीचात्कश्यपाद्देवा जज्ञिरे परमर्षयः
भृगवोंऽगिरसश्चैव ते ऽष्ठौ देवगणाः स्मृताः
साध्याश्य वसवो विश्वे धर्मपुत्रास्त्रयो गणाः
वैवस्वतेंऽतरे ह्यस्मिन्नित्ये ते छन्दजा मताः
एवं सर्गस्तु मारीचो विज्ञेयः सांप्रतः शुभः
अतीतानागता ये च वर्त्तन्ते सांप्रतं च ये
भूतभव्यभवन्नाथाः सहस्राक्षाः पुरन्दराः
सर्वैः क्रतुशतेनेष्टं पृथक्छतगुणेन तु
अभिभूयावतिष्ठन्ति धर्माद्यैः कारणैरपि
भूतभव्यभवन्नाथा यथा ते प्रभविष्णवः
भूतभव्यभवद्ध्येत त्समृतं लोकत्रयं द्विजैः
भव्यं स्मृतं दिवं ह्येतत्तेषां वक्ष्यामि साधनम्
भूरिति व्याहृतं पूर्वं भूर्लोको ऽयमभूत्तदा
भूतत्वाद्दर्शनाच्चैव भूर्लोको ऽयमभूत्ततः
भूते ऽस्मिन्भवदित्युक्तं द्वितीयं ब्रह्मणा पुनः
भवनात्तु भुवल्लोको निरुत्तया हि निरुच्यते
उत्पन्ने तु तथा लोके द्वितीये ब्रह्मणा पुनः
अनागते भव्य इत शब्द एष विभाव्यते
भूरितीयं स्मृता भूमिरन्तरिक्षं भुवः स्मृतम्
त्रैलोक्ययुक्तैर्व्याहारैस्तिस्रो व्याहृतयो ऽभवन्