दशभ्यस्तु प्रचेतोभ्यो मारिषायां प्रजापतिः
असृजन्मनसा त्वादौ प्रजा दक्षो ऽथ मैथुनात्
विसृज्य मनसा दक्षः पश्चादसृजत स्त्रियः
कालस्य नयने युक्ताः सप्तविंशतिमिन्दवे
द्वे चैव बहुपुत्राय द्वे चैवाङ्गिरसे तथा
अन्तरं चाक्षुषस्याथ मनोः षष्ठं तु गीयते
वसुदेवाः खगा गावो नागा दितिजदानवाः
संकल्पाद्दर्शनात्स्पर्शात्पूर्वासां सृष्टिरुच्यते
संभवः कथितः पूर्वं दक्षस्य च महात्मनः
कथं प्राचे तस्त्वं च पुनर्लेभे महातपाः
दौहित्रश्चैव सोमस्य कथं श्र्वशुरतां गतः
ऋषयो ऽत्र न सुह्यन्ति विद्यावन्तश्च ये जनाः
पुनश्चैव निरुध्यन्ते विद्वांस्तत्र न मुह्यति
तप एव गरीयो ऽभूत्प्रभावश्चैव कारणम्
प्रजावानायुषस्तीर्णः स्वर्गलोके महीयते
इत्येते षट् निसर्गाश्च क्रान्ता मन्वन्तरात्मकाः
एते सर्गा यथा प्राज्ञैः प्रोक्ता ये द्विजसत्तमाः
अन्यूनानतिरिक्तास्ते सर्वे सर्गा विवस्वतः
एतानेव गुणानेति यः पठन्ननसूयकः
समासव्यासतः सर्गं ब्रुवतो मे निबोधत
मारीचात्कश्यपाद्देवा जज्ञिरे परमर्षयः
भृगवोंऽगिरसश्चैव ते ऽष्ठौ देवगणाः स्मृताः
साध्याश्य वसवो विश्वे धर्मपुत्रास्त्रयो गणाः
वैवस्वतेंऽतरे ह्यस्मिन्नित्ये ते छन्दजा मताः
एवं सर्गस्तु मारीचो विज्ञेयः सांप्रतः शुभः
अतीतानागता ये च वर्त्तन्ते सांप्रतं च ये
भूतभव्यभवन्नाथाः सहस्राक्षाः पुरन्दराः
सर्वैः क्रतुशतेनेष्टं पृथक्छतगुणेन तु
अभिभूयावतिष्ठन्ति धर्माद्यैः कारणैरपि
भूतभव्यभवन्नाथा यथा ते प्रभविष्णवः