एवं सर्वेषु विज्ञेया अतीतानागतेष्विह
पृथोस्तु पुत्रौ विक्रान्तौ जज्ञाते ऽन्तर्द्धिपाषनौ
हविर्धानात्षडाग्नेयी धिषणाजनयत्सुतान्
प्राचीनबर्हिर्भगवान्महानासीत्प्रजापतिः
प्राचीनाग्राः कुशास्तस्य तस्मात्प्राचीनबर्ह्यसौ
महतस्तपसः पारे सवर्णायां प्रजापतिः
सर्वान्प्रचेतसो नाम धनुर्वेदस्य पारगान्
दशवर्ष सहस्राणि समुद्रसलिलेशयाः
अरक्ष्यमाणामावब्रुर्बभूवाथ प्रजाक्षयः
नाशकन्मारुतो वातुं वृत्तं खमभवद्द्रुमैः
तदुपश्रुत्य तपसा सर्वे युक्ताः प्रचेतसः
उन्मूलानथ वृक्षांस्तान्कृत्वा वायुरशोषयत्
द्रुमक्षयमथो बुद्ध्वा किञ्चिच्छिष्टेषु शाखिषु
दृष्ट्वा प्रयोजनं सत्यं लोकसंतानकारणात्
वृक्षाः क्षित्यां जनिष्यन्ति शाम्यतामग्निमारुतौ
भविष्यज्जनता ह्येषा धृता गर्भेण वै मया
भार्या भवतु वो ह्येषा सोमगर्भा विवर्द्धिता
अस्यामुत्पत्स्यते विद्वान्दक्षो नाम प्रजापतिः
अग्निनाग्निसमो भूयः प्रजाः संवर्द्धयिष्यति
संत्दृत्य कोपं वृक्षेभ्यः पत्नीं धर्मेण मारिषाम्
दशभ्यस्तु प्रचेतोभ्यो मारिषायां प्रजापतिः
असृजन्मनसा त्वादौ प्रजा दक्षो ऽथ मैथुनात्
विसृज्य मनसा दक्षः पश्चादसृजत स्त्रियः
कालस्य नयने युक्ताः सप्तविंशतिमिन्दवे
द्वे चैव बहुपुत्राय द्वे चैवाङ्गिरसे तथा
अन्तरं चाक्षुषस्याथ मनोः षष्ठं तु गीयते
वसुदेवाः खगा गावो नागा दितिजदानवाः
संकल्पाद्दर्शनात्स्पर्शात्पूर्वासां सृष्टिरुच्यते
संभवः कथितः पूर्वं दक्षस्य च महात्मनः
कथं प्राचे तस्त्वं च पुनर्लेभे महातपाः