ब्रह्मा ब्राह्यास्तु वै दोगधा तेषामासीत्कुबेरकः
कपालपात्रे निर्दुग्धा ह्यन्तर्द्धनं च राक्षसैः
पद्मपात्रे पुनर्दुग्धा गन्धर्वैश्चाप्स रोगणैः
तेषां वसुरुचिस्त्वासीद्दोग्धा पुत्रो मुनेः शुभः
शैलैश्च श्रूयते दुग्धा पुनर्देवी वसुन्धरा
वत्सस्तु हिमवानासीद्दोग्धा मेरुर्महागिरिः
श्रूयते वृक्षवीरुद्भिः पुनर्दुग्धा वसुन्धरा
कामधुक् पुष्पितः शालः प्लक्षो वत्सो यशस्विनाम्
सैव धात्री विधात्री च धारणी च वसुन्धरा
चराचरस्य लोकस्य प्रतिष्ठा योनिरेव च
वसु धत्ते यतस्तस्माद्वसुधा सेति गीयते
तेनेयं मेदिनीत्युक्ता निरुक्त्या ब्रह्मवादिभिः
दुहितृत्वमनुप्राप्ता पृथिवी पठ्यते ततः
तस्याकरवती राज्ञः पत्तनाकरमालिनी
एवंप्रभावोराजासीद्वैन्यः सद्विजसत्तमाः
ब्राह्मणैश्च महाभागैर्वेदवेदाङ्गपारगैः
पार्थिवैश्च महाभागैः प्रार्थयद्भिर्महद्यशः
योधैरपि च संग्रामे प्राप्तुकामैर्जयं युधि
यो हि योद्धा रणं याति कीर्त्तयित्वा पृथुं नृपम्
वैश्यैरपि च राजर्षिर्वेश्यवृत्तिमिहास्थितैः
एते वत्सविशेषाश्च दोग्धारः क्षीरमेव च
ब्रह्मणा प्रथमं दुग्धा पुरा पृथ्वी महात्मना
ततः स्वायंभुवे पूर्वं तदा मन्वन्तरे पुनः
ततः स्वारोचिषे वापि प्राप्ते मन्वन्तरे ऽधुना
उत्तमेन तु तेनापि दुग्धा देवानु जेन तु
पुनश्च पञ्चमे पृथ्वी तामसस्यान्तरे मनोः
चारिष्टवस्य वै षष्ठे संप्राप्ते चान्तरे मनोः
चाक्षुषे चापि संप्राप्ते तदा मन्वन्तरे पुनः
चाक्षुषस्यान्तरे ऽतीते प्राप्ते वैवस्वते पुनः
एतैर्दुग्धा पुरा पृथ्वी व्यतीतेष्वन्तरेषु वै