चाक्षुषस्यान्तरे पूर्वमासीदेतत्पुरा किल
समत्वं यत्र यत्रासीद्भूमेः कस्मिंश्चिदेव हि
आहारः फल मूले तु प्रजानामभवत्किल
वैन्यात्प्रभृति लोके ऽस्मिन्सर्वस्यैतस्य संभवः
पृथुर्दुदोह सस्यानि स्वे तले पृथिवीं ततः
ऋषिभिः श्रूयते चापि पुनर्दुग्धा वसुंधरा
छन्दासिपात्रमासीत्तु गायत्र्यादीनि सर्वशः
पुनस्ततो देवगणैः पुरन्दरपुरोगमैः
वत्सस्तु मघवानासीद्दोग्धा च सविता विभुः
पितृभिः श्रूयते चापि पुनर्दुग्धा वसुन्धरा
वैवस्वतो यमस्त्वासीत्तेषां वत्सः प्रतापवान्
असुरैः श्रूयते चापि पुनर्दुग्धा वसुन्धरा
विरोचनस्तु प्राह्रादिर्वत्सस्तेषां महायशाः
पायसा ते च मायाभिः सर्वे मायाविनो ऽसुराः
नागैस्तु श्रूयते दुग्धा वत्सं कृत्वा तु तक्षकम्
तेषां वै वासुकिर्देग्धा काद्रवेयः प्रतापवान्
तेनैव वर्त्तयन्त्युग्रा महाकाया विषोल्बणाः
आमपात्रे पुनर्दुग्धा त्वन्तर्धानप्रियं मही
दोग्धा रजतनाभस्तु पिता मणिधरस्य यः
तेन ते वर्त्तयन्तीति परमर्थतया च ह
ब्रह्मा ब्राह्यास्तु वै दोगधा तेषामासीत्कुबेरकः
कपालपात्रे निर्दुग्धा ह्यन्तर्द्धनं च राक्षसैः
पद्मपात्रे पुनर्दुग्धा गन्धर्वैश्चाप्स रोगणैः
तेषां वसुरुचिस्त्वासीद्दोग्धा पुत्रो मुनेः शुभः
शैलैश्च श्रूयते दुग्धा पुनर्देवी वसुन्धरा
वत्सस्तु हिमवानासीद्दोग्धा मेरुर्महागिरिः
श्रूयते वृक्षवीरुद्भिः पुनर्दुग्धा वसुन्धरा
कामधुक् पुष्पितः शालः प्लक्षो वत्सो यशस्विनाम्
सैव धात्री विधात्री च धारणी च वसुन्धरा
चराचरस्य लोकस्य प्रतिष्ठा योनिरेव च