ज्वलद्भिर्निशितैर्बाणैर्दीप्ततेजसमच्युतम्
अलबन्ती तु सा त्राणं वैन्यमेवान्वपद्यत
उवाच वैनं नाधर्मः स्त्रीवधे परिपश्यति
मयि लोकाः स्थिता राजन्मयेदं धार्यते जगत्
स मां नर्हसि वै हन्तुं श्रेयस्त्वं च चिकीर्षसि
उपायतः समारब्धा सर्वे सिद्ध्यन्त्युपक्रमाः
अन्तर्भूता भविष्यामि जहि कोपं महाद्युते
सत्त्वषु पृथिवीपाल धम न त्यक्तुमर्हसि
क्रोधं निगृह्य धर्मात्मा वसुधामिदमब्रवीत्
एकं प्राणी बहून्वापि कर्म तस्यास्ति पातकम्
तस्मिन्हते नास्ति शुभे पातकं चोपपातकम्
यदि मे वचनं नाद्य करिष्यसि जगद्धितम्
आत्मानं प्रथयित्वेह प्रजा धारयिता स्वयम्
संजीवय प्रजा नित्यं शक्ता ह्यसि न संशयः
नियच्छेयं त्वद्वधार्थमुद्यन्तं घोरदर्शनम्
सर्वमेतदहं राजन्विधास्यामि न संशयः
यथा विस्पन्दमानं मे क्षीरं सर्वत्र भावयेत्
धनुष्कोट्या तथा वैन्यस्तेन शैला विवर्द्धिताः
स्वभावेना भवत्तस्याः समानि विषमाणि च
प्रविभागः पुराणां वा ग्रामाणां वापि विद्यते
चाक्षुषस्यान्तरे पूर्वमासीदेतत्पुरा किल
समत्वं यत्र यत्रासीद्भूमेः कस्मिंश्चिदेव हि
आहारः फल मूले तु प्रजानामभवत्किल
वैन्यात्प्रभृति लोके ऽस्मिन्सर्वस्यैतस्य संभवः
पृथुर्दुदोह सस्यानि स्वे तले पृथिवीं ततः
ऋषिभिः श्रूयते चापि पुनर्दुग्धा वसुंधरा
छन्दासिपात्रमासीत्तु गायत्र्यादीनि सर्वशः
पुनस्ततो देवगणैः पुरन्दरपुरोगमैः
वत्सस्तु मघवानासीद्दोग्धा च सविता विभुः
पितृभिः श्रूयते चापि पुनर्दुग्धा वसुन्धरा