एतस्मिन्नेव काले तु यजतस्तस्य वै मखे
तस्मिन्नेवं समुत्पन्ने पुनर्जज्ञे ऽथ मागधः
समागते समुत्पन्नस्तस्मान्मागध उच्यते
जुहावेन्द्राय दैवेन ततः सूतो व्यजायत
शिष्यहव्येन यत्पृक्तमभिभूतं गुरोर्हविः
यच्च क्षत्रात्समभवद्ब्राह्मण्यां हीनयोनितः
मध्यमो ह्येष सूतस्य धर्मः क्षेत्रोपजीवनम्
पृथुस्तवार्थं तौ तत्र समाहूतौ महर्षिभिः
कर्मैतदनुरूपं च पात्रं चायं नराधिपः
आवां देवानृषींश्चैव प्रीणयावः स्वकर्मतः
स्तोत्रं येनास्य कुर्याव प्रोचुस्तेजस्विनो द्विजाः
ज्ञानशीलो वदान्यश्च संग्रामेष्वपरजितः
यानि कर्माणि कृतवान् पृथुः पश्चान्महाबलः
ततस्तवान्ते सुप्रीतः पृथुः प्रादात्प्रजेश्वरः
तदादि पृथिवीपालाः स्तूयन्ते सूतमागधैः
तं दृष्ट्वा परमप्रीताः प्रजा ऊचुर्महर्षयः
ततो वैन्यं महाभागं प्रजाः समभिदुद्रुवुः
सो ऽभिद्रुतः प्रजाभिस्तु प्रजाहितचिकीर्षया
ततो वैन्यभयत्रस्ता गौर्भूत्वा प्राद्रवन्मही
सा लोकान्ब्रह्मलोकादीन्गत्वा वैन्यभयात्तदा
ज्वलद्भिर्निशितैर्बाणैर्दीप्ततेजसमच्युतम्
अलबन्ती तु सा त्राणं वैन्यमेवान्वपद्यत
उवाच वैनं नाधर्मः स्त्रीवधे परिपश्यति
मयि लोकाः स्थिता राजन्मयेदं धार्यते जगत्
स मां नर्हसि वै हन्तुं श्रेयस्त्वं च चिकीर्षसि
उपायतः समारब्धा सर्वे सिद्ध्यन्त्युपक्रमाः
अन्तर्भूता भविष्यामि जहि कोपं महाद्युते
सत्त्वषु पृथिवीपाल धम न त्यक्तुमर्हसि
क्रोधं निगृह्य धर्मात्मा वसुधामिदमब्रवीत्
एकं प्राणी बहून्वापि कर्म तस्यास्ति पातकम्