प्रभवं सर्वलोकानां धर्माणां च विशेषतः
सृजेयं वा ग्रसेयं वा नात्र कार्या विचारणा
अनुनेतुं तदा वेनस्ततः क्रुद्धा महर्षयः
ततो ऽस्य वामहस्तं ते ममन्थुर्भृशकोपिताः
ह्रस्वो ऽतिमात्रं पुरुषः कृष्णश्चापि बभूव ह
तमार्त्तं विह्वलं दृष्ट्वा निषीदेत्यब्रुवन्किल
धीवरानसृजच्चापि वेनकल्मषसंभवान्
अधर्मरुचयश्चापि विद्धि तान्वेनकल्मषान्
अरणीमिव संरब्धा ममन्थुर्जातमन्यवः
पृथोः करतलाद्वापि यस्माज्जातः पृषुस्ततः
आद्यमाजगवं नाम धनुर्गृह्य महारवम्
तस्मिञ्जा ते ऽथ भूतानि संप्रहृष्टानि सर्वशः
समुत्पन्नेन राजर्षिः सत्पुत्रेण महात्मना
तं नद्यश्च समुद्राश्च रत्नान्यादाय सर्वशः
पितामहश्च भगवानङ्गिरोभिः सहामरैः
समागम्य तदा वैन्यमभ्य षिञ्चन्नराधिपम्
सो ऽभिषिक्तो महाराजो देवैरङ्गिरसः सुतैः
पित्रापरञ्जितास्तस्य प्रजास्तेनानुरञ्जिताः
आपस्तस्तंभिरे तस्य समुद्रमभियास्यतः
अकृष्टपच्या पृथिवी सिद्ध्यन्त्यन्नानि चिन्तया
एतस्मिन्नेव काले तु यजतस्तस्य वै मखे
तस्मिन्नेवं समुत्पन्ने पुनर्जज्ञे ऽथ मागधः
समागते समुत्पन्नस्तस्मान्मागध उच्यते
जुहावेन्द्राय दैवेन ततः सूतो व्यजायत
शिष्यहव्येन यत्पृक्तमभिभूतं गुरोर्हविः
यच्च क्षत्रात्समभवद्ब्राह्मण्यां हीनयोनितः
मध्यमो ह्येष सूतस्य धर्मः क्षेत्रोपजीवनम्
पृथुस्तवार्थं तौ तत्र समाहूतौ महर्षिभिः
कर्मैतदनुरूपं च पात्रं चायं नराधिपः
आवां देवानृषींश्चैव प्रीणयावः स्वकर्मतः