लताः काष्ठाः कलाश्चैव मुहूर्ताः संधिरात्र्यहाः
स्थाने स्रोतःस्वभीमानाः स्थानाख्याश्चैव ते स्मृताः
देवांश्चैव पितॄंश्चैव यौरिमा वर्द्धिताः प्रजाः
दक्षो ऽत्रिश्च वसिष्ठश्च सासृजन्नव मानसान्
ब्रह्मा यथात्मकानां तु सर्वेषां ब्रह्मयोगिनाम्
संकल्पं चैव धर्म च सर्वेषामेव पर्वतौ
संकल्पाच्चैव संकल्पो जज्ञे सो ऽव्यक्तयोनिनः
भृगुश्च हृदयाज्जज्ञे ऋषिः सलिलयोनिनः
पुलस्त्यश्च तथोदानाद्व्यानात्तु पुलहस्तथा
इत्येते ब्रह्मणः श्रेष्ठाः पुत्रा वै द्वादश स्मृताः
भृग्वादयस्तु ये सृष्टा न च ते ब्रह्मवादिनः
द्वादशैते प्रसूयन्ते सह रूद्रेण च द्विजाः
पूर्वोत्पत्तौ पुरा ह्येतौ सर्वेषामपि पूर्वजौ
विरजेते ऽत्र वै लोके तेजसाक्षिप्य चात्मनः
प्रजाधर्मं च कामं च वर्तयेते महौजसौ
ततः सनत्कुमारेति नाम तस्य प्रतिष्ठितम्
क्रियावन्तः प्रजावन्तो महर्षिभिरलङ्कृताः
ततो ऽसुरान्पितॄन्देवान्मनुष्यांश्चासृजत्प्रभुः
प्रजननान्मनुष्यान्वै जघनान्निर्ममे ऽसुरान्
सुधायाश्च पितॄंश्चैव देवदेवः ससर्जह
सनसश्च मनुष्यांश्च पितृवन्महतः पितॄन्
ऋचो यजूंषि सामानि निर्ममे यज्ञसिद्धये
ब्रह्मणस्तु प्रजासर्गं देवार्षिपितृमानवम्
यक्षान्पिशाचान् गन्धर्वान्सर्वशो ऽप्सरसस्तथा
अव्ययं वा व्ययञ्चैव द्वयं स्थावरजङ्गमम्
तान्येव प्रतिपद्यन्ते सृज्यमानाः पुनः पुनः
तेषामेव पृथक् सूतमविभक्तं त्रयं विदुः
कर्म स्वविषयं प्राहुः सत्त्वस्थाः समदर्शिनः
दिवशब्देन पञ्चैते निर्ममे समहेश्वरः
शर्वर्यां न प्रसूयन्ते पुनस्तेभ्योदधत्प्रभुः